Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 143
________________ ११८ लाटीसंहितायां अनैकाग्र्यं तदेव स्याल्लक्षणादपि लक्षणम् ॥ २१ ॥ प्रोषधोपवासस्यात्र लक्षणं कथितं मया । इतः संख्योपभोगस्य परिभोगस्य चोच्यते ॥ २११॥ निर्दिष्टं लक्षणं पूर्वं परिभोगोपभोगयोः । तयोः संख्या प्रकर्तव्या सागारैव्रतधारिभिः ॥ २१३ ।। सन्ति तत्राप्यतीचाराः पश्च सूत्रोदिता बुधैः । परिहार्याः प्रयत्नेन श्रावकैर्धर्मवेदिभिः ॥ २१३ ॥ __ तत्सूत्रं यथा-सचित्तसबन्धसन्मिश्राभिषवदुःपक्काहाराः । चिकीर्षन्नपि तत्संख्यां सचित्तं यो न मुञ्चति । दोषः सचित्तसंज्ञोस्य भवेत्संख्याव्रतस्य सः ॥ २१४ ॥ तथाविधोपि यः कश्चिच्चेतनाधिष्ठितं च यत् । वस्तुसंख्यामकुर्वाणो भवेत्सम्बन्धदूषणम् ॥ २१ ॥ मिश्रितं च सचित्तेन वस्तुजातं च वस्तुना। । स्वीकुर्वाणोप्यतीचारं सन्मिश्राख्यं च न त्यजेत् ॥ २ आहारं स्निग्धग्राहिंश्च ? दुर्जरं जठराग्निना । असंख्यातवतस्तस्य दोषो दुष्पक्कसंज्ञकः ॥ २१॥ उक्तातिचारनिर्मुक्तं परिभोगोपभोगयोः। । संख्यावतं गृहस्थानां श्रेयसे भवति ध्रुवम् ॥ २१॥ अतिथिसंविभागाख्यं व्रतमस्ति व्रतार्थिनाम। सर्वव्रतशिरोरत्नमिहामुत्र सुखप्रदम ॥ २१॥ ईषन्न्यूने च मध्याह्ने कुर्याद् द्वारावलोकनम् । दातुकामः सुपात्राय दानीयाय महात्मने ॥ २२॥ तत्पात्रं त्रिविधं ज्ञेयं तत्राप्युत्कृष्टमादिमम् । द्वितीयं मध्यमं ज्ञेयं तृतीयं तु जघन्यकम् ॥ २२२ ॥ उक्तं च। उत्कृष्टपात्रमनगारमणुव्रताढयं मध्यं व्रतेन रहितं सुदृशं जघन्यम् ।

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162