Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 141
________________ ११६ लाटीसंहितायां तत्रार्द्धरात्रके पूजां न कुर्यादहतामपि । हिंसाहेतोरवश्यं स्याद्रात्रौ पूजाविवर्जनम् ॥ १८ ॥ एवं प्रवर्तमानश्च सागारो व्रतवानिह । स्वर्गादिसम्पदो भुक्त्वा निर्वाणपदभाग्भवेत् ॥ १८ ॥ सामायिकव्रतस्यापि पञ्चातीचारसंज्ञकाः । दोषाः सन्ति प्रसिद्धास्ते त्याज्याः सूत्रोदिता यथा ॥ १८४ ।। तत्सूत्रं यथा-योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि । सामायिकादितोन्यत्र मनोवृत्तिर्यदा भवेत् । मनोदुष्प्रणिधानाख्यो दोषोतीचारसंज्ञकः ॥ १९॥ वाग्योगोपि ततोन्यत्र हुङ्कारादिप्रवर्तत। वचोदुष्प्रणिधानाख्यो दोषोतीचारसंज्ञकः ॥ १९6॥ काययोगस्ततोन्यत्र हस्तसंज्ञादिदर्शने । वर्तते तदतीचारः कायदुष्प्रणिधानकः ॥ १९१॥ यदाऽऽलस्यतया मोहात्कारणाद्वा प्रमादतः । अनुत्साहतया कुर्यात्तदाऽनादरदूषणम् ॥ १९ ॥ अस्ति स्मृत्यनुपस्थानं दूषणं प्रकृतस्य यत् । न्यूनं वर्णैः पदैर्वाक्यैः पठ्यते यत्प्रमादतः ॥ १९४ । ख्यात सामायिकं नाम व्रतं चाणुव्रतार्थिनाम्। ' अतीचारविनिर्मुक्तं भवेत्संसारविच्छिदे ॥ १९४ ॥ स्यात्प्रोषधोपवासाख्यं व्रतं च परमौषधम् । जन्ममृत्युजरातङ्कविध्वंसनविचक्षणम् ।। १९५ ॥ चतुर्दाशनसंन्यासो यावद्यामाश्च षोडश । स्थितिनिरवद्यस्थाने व्रतं प्रोषधसंज्ञकम् ।। १९६॥ कर्तव्यं तदवश्यं स्यात्पर्वण्यां प्रोषधव्रतम् । अष्टम्यां च चतुर्दश्यां यथाशक्त्यपि चान्यदा ॥२९॥ धारणाह्नि त्रयोदश्यां मध्याह्ने कृतभोजनः ।

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162