Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
अणुव्रतचतुष्कशीलसप्तकवर्णनम् । •rmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm 'अस्त्यत्र पञ्चधा पूजा मुख्यमाह्वानमात्रिका। प्रतिष्ठापनसंज्ञाथ सन्निधीकरणं तथा ॥ १७१॥ ततः पूजनमत्रास्ति ततो नाम विसर्जनम् ।। पञ्चधेय समाख्याता पञ्चकल्याणदायिनी ॥ १७॥ तद्विधिश्चात्र निर्दिष्टुमर्हन्नप्युपलक्षितः ।। स्मृतेः संक्षेपसंकेताद्विधेश्चातीव विस्तरात् ॥ १७॥ एवमित्याद्यवश्यस्याल्कर्तव्यं व्रतधारिभिः। ' अस्ति चेदात्मसामर्थ्यं कुर्याचाप्यपरं विधिम् ॥ १७६ अर्चयेञ्चैत्यवेश्मस्थानहद्विम्बादिकानपि । ... सूर्युपाध्यायसाधूंश्च पूजयेद्भक्तितो व्रती ।। १७७॥ ततो मुनिमुखोद्गीणं प्रोक्तं वा सद्मसूरिभिः । धर्मस्य श्रवणं कुर्यादादराद ज्ञानचक्षुषे ॥ १७॥ । गृहकार्य ततः कुर्यादात्मनिन्दादिमानयम् । ततो मध्याह्निके प्राप्ते भूयः कुर्यादमुं विधिम् ॥ १७॥ अतिथिसंविभागस्य भावनां भावयेदपि । मध्याह्नादीषदर्वाग्वै नातः कालाद्यतिक्रमे ॥ १८०॥ भोजयित्वा स्वयं यावत्क्षणं शेते सुखाशया। धारयेद्धर्मश्रवणं पूर्वाह्ने यच्छ्रतं स्मृतेः ॥ १८ ॥ ऊहापोहोपि कर्तव्यः सार्धं चापि सधर्मिभिः । अस्ति चेद् ज्ञानसामर्थ्य कार्य शास्त्रावलोकनम् ॥ १८३ ॥ गृहकार्य ततः कुर्याद्भयः संध्यावधेरिह । ततः सायंतने प्राप्ते कुर्यात्सामायिकी क्रियाम् ॥ १८॥ किश्चापराह्नके काले जिनबिम्बान् प्रागर्चयेत् । ततः सामायिकं कुर्यादुक्तेन विधिना व्रती ॥ १८॥ ततश्च शयनं कुर्याधथानिद्रं यथोचितम् । निशीथे पुनरुत्थाय कुर्यात्सामायिकी क्रियाम् ॥ १८ ॥
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162