Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
११४
लाटीसंहितायां
हेतुस्तेषां समुत्पत्तौ काललब्धिः परं स्वतः ॥ १६ ॥ इत्यादि जगत्सर्वं स्वं चिन्तयेत्तन्मुहुर्मुहुः । नूनं संवेगवैराग्यवर्द्धनाय महामतिः ॥ १६१ । - उक्तं च-जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् । चिन्तनानन्तरं चेति चिन्तयेदात्मनो गतिम् । कोहं कुतः समायातः क यास्यामि जवादितः ॥ १६३ ॥ हेयं किं किमुपादेयं मम शुद्धचिदात्मनः । कर्तव्यं किं मया त्याज्यमधुना जीवनावधि ॥ १६३ ॥ इति चिन्तयतस्तस्य संवेगो जायते गुणः । संसारभवभोगेभ्यो वैराग्यं चोपवृंहति ॥ १६४॥ ततः साधुसमाधिश्च सामायिकव्रतान्वितः ।। ततः सामायिकी क्रियां कुर्याद्वा शल्यवर्जितः ॥ १६ ॥ तज्जिनेन्द्रगुणस्तोत्रं पठेत्पद्यादिलक्षणम् । सिद्धानामथ साधूनां कुर्यात्सोपि गुणस्तुतिम् ॥ १६६॥ ततोहद्भारती स्तुत्वा जगच्छान्तिमधीय च ।। क्षणं ध्यानस्थितो भूत्वा चिन्तयेच्छुद्धचिन्मयम् ॥ १६७ ॥ ततः सम्पूर्णतां नीत्वा ध्यानं कालानतिक्रमात् । संस्तुतानां यथाशक्ति तत्पूजां कर्तुमर्हति ।। १६९ ॥ स्नानं कुर्यात्प्रयत्नेन संशुद्धैः प्रासुकोदकैः। । गृह्णीयाद्धौतवस्त्राणि दृष्टिपूतानि प्रायशः ॥ १६॥ ततः शनैः शनैर्गत्वा स्वसद्मस्थजिनालये । द्रव्याण्यष्टौ जलादीनि सम्यगादाय भाजने ॥ १७ ॥ तत्रस्थान जिनविम्बांश्च सिद्धयन्त्रान् समर्चयेत् । दर्शनज्ञानचारित्रत्रयं स्थाप्य समर्चयेत् ॥ १७१ ॥ शेषानपि यथाशक्ति गुणानप्यर्चयेव्रती । अत्र संक्षेपमात्रत्वादुक्तमुल्लखतो मया ॥ १७२।।
Loading... Page Navigation 1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162