Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
लाटीसंहितायां
mmmmmmmmmmmm
यथानाम विनोदार्थं जलादि वनक्रीडनम् । कायेन मनसा वाचा तद्भेदा बहवः स्मृताः ।। १३८ ॥ कृतकारितानुमननैस्त्रिकाल विषयं मनोवचःकायैः । परिहृत्य कर्मसकलं परमं नैष्कर्म्यमवलम्बेत् ॥ १३९ ॥ दोषाः सूत्रोदिताः पञ्च सन्त्यतीचारसंज्ञकाः । अनर्थदण्डत्यागस्य व्रतस्यास्यापि दूषिकाः ॥ १४० ।।
तत्सूत्रं यथा-कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि । अस्ति कन्दर्पनामापि दोषः प्रोक्तव्रतस्य यः। रागोद्रेकात्प्रहासाहिमिश्रीवाग्योग इत्यपि ॥ १४१ ॥ दोषः कौत्कुच्यसंज्ञोस्ति दुष्टकायक्रियादियुक् । पराङ्गस्पर्शनं स्वाङ्गैरीदन्याङ्गनादिषु ॥ १४२ ।। मौखर्यदूषणं नाम रतप्रायं वचःशतम् । अतीव गर्हितं धाष्टाद्यद्वात्यर्थं प्रजल्पनम् ॥ १४३ ॥ असमीक्ष्याधिकरणमनल्पीकरणं हि यत् । अर्थात्स्वार्थमसमीक्ष्य वस्तुनोऽनवधानतः ॥ १४४ ॥ यथाहारकृते यावज्जलेनास्ति प्रयोजनम् । नेतव्यं तावदेवात्र दूषणं चान्यथोदितम् ॥ १४५ ॥ भुज्यते सकृदेवात्र स्यादुपभोगसंज्ञकः । यथा मृक्चन्दनं माल्यमन्नपानौषधादि वा ॥ १४६ ॥ परिभोगः समाख्यातो भुज्यते यत्पुनः पुनः । यथा योषिदलंकारवस्त्रागारगजादिकम् ।। १४७ ॥ आनर्थक्यं तयोरेव स्यादसंभविनोयोः । अनात्मोचितसंख्यायाः करणादपि दूषणम् ॥ १४८ ॥ यथा दीनश्च दुर्भाग्यो वस्तुसंख्यां चिकीर्षति । गृह्णाम्यशाश्वतं यावन्न गृह्णामि ततोधिकम् ॥ १४९ ॥
Loading... Page Navigation 1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162