Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
११०
लाटीसंहितायां
पूर्वस्यां दिशि गच्छामि यावद्गङ्गाम्बु केवलम् । तद्वहिवपुषानेन न गच्छामि सचेतनः ।। ११३ ॥ एवं कृतप्रतिज्ञस्य संवरः पापकर्मणः । तद्वहिः सर्वहिंसाया अभावात्तन्मुनेरिव ॥ ११४ ॥ परिपाट्यानयोदीच्या पश्चिमायां दिशि स्मृताः । मर्यादो मधश्चापि दक्षिणस्यां विदिक्षु च ॥ ११५ ॥ तत्करणे महच्छ्यो हिंसा तृष्णाद्वयात्ययात् । करणीयं ततोऽवश्यं श्रावकैव्रतधारिभिः ।। ११६ ॥ सन्ति तत्राप्यतीचाराः पञ्चेति सूत्रसाधिताः । सावधानतया त्याज्यास्तेपि तद्वतसिद्धये ॥ ११७ ॥
तत्सूत्रं यथा-ऊध्वाधस्तिर्यग्व्यतिक्रम क्षेत्रवृद्धिस्मृत्यन्तराधानानि । उच्चैर्धात्रीधरारोहे भवेदू व्यतिक्रमः । अगाधभूधरावेशाद्विख्यातोऽधोव्यतिक्रमः ॥ ११८ ।। क्वचिदिक्कोणदेशादौ क्षेत्रे दीर्घाध्ववर्तिनि । कारणाद्गमनं लोभाद्भवेत्तिर्यग्व्यतिक्रमः ॥ ११९॥ यथा सत्यमितः क्रोशः शतं यावद्गतिर्मम । क्रोशा मालवदेशीया क्षेत्रवृद्धिश्च दूषणम् ।। १२० ॥ स्मृतं स्मृत्यन्तराधानं विस्मृतं च पुनः स्मृतम् । दूषणं दिग्विरतेः स्यादनिर्णीतमियत्तया ॥ १२१ ॥ प्रोचिता देशविरतिर्यावत्कालात्मवर्तिनी । तत्पर्यायाः क्षणं यामदिनमासर्तृवत्सराः ॥ १२२ ॥ तद्विषयो गतित्यागस्तथा चाशनवर्जनम् । मैथुनस्य परित्यागो यद्वा मौनादिधारणम् ॥ १२३ ॥ यथाद्य यदि गच्छामि प्राच्यामेवेति केवलम् । कारणान्नापि गच्छामि शेषदित्रितयेवशात् ॥ १२४ ॥
Loading... Page Navigation 1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162