Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
अणुव्रत चतुष्कशीलसप्तकवर्णनम् ।
वास्तु वस्त्रादिसामान्यं तत्संख्यां क्रियतां बुधैः । अतीचारनिवृत्यर्थं कार्यो नातिक्रमस्ततः ॥ १०० ॥ हिरण्यध्वनिना प्रोक्तं वज्रमौक्तिकसत्फलम् । तेषां प्रमाणमात्रेण क्षणान्मूर्च्छा प्रलीयते ॥ १०१ ॥ अत्र सुवर्णशब्देन ताम्रादिरजतादयः ।
संख्या तेषां च कर्तव्या श्रेयान्नातिक्रमस्ततः ।। १०२ ।। धनशब्दो गवाद्यर्थः स्याच्चतुष्पदवाचकः । विधेयं तत्परिमाणं ततो नातिक्रमो वरः ॥ १०३ ॥ धान्यशब्देन मुद्रादि यावदन्नकदम्बकम् । व्रतं तत्परिमाणेन व्रतहानिरतिक्रमात् ॥ १०४ ॥ दासकर्मरता दासी क्रीता वा स्वीकृता सती । तत्संख्या व्रतशुद्धयर्थं कर्तव्या सानतिक्रमात् ॥ १०५ ॥ यथा दासी तथा दासः संख्या तस्यापि श्रेयसी । श्रेयानतिक्रमो नैव हिंसा तृष्णोपवृंहणात् ॥ १०६ ॥ कुप्यशब्दो घृताद्यर्थस्तद्भाण्डं भाजनानि वा । तेषामप्यल्पीकरणं श्रेयसे स्याद्वतार्थिनाम् ॥ १०७ ॥ उक्ताः संख्याव्रतस्यास्य दोषाः संक्षेपतो मया । परिहार्याः प्रयत्नेन संख्याणुव्रतधारिणा ॥ १०८ ॥ प्रोक्तं सूत्रानुसारेण यथाणुव्रतपञ्चकम् । गुणत्रतत्रयं वक्तुमुत्सहेदधुना कविः ॥ १०९ ॥ दिग्देशानर्थदण्डानां विरतिः स्याद्गुणव्रतम् । एकत्वाद्विरतेश्वापि त्रेधा विषयभेदतः ॥ ११० ॥ दिग्विरतिर्यथा नाम दिक्षु प्राच्यादिकासु च । गमनं प्रतिजानीते कृत्वा सीमानमार्हतः ॥ १११ ॥ सन्त्यत्र विषयाः सीम्नः वननीवृन्नगापगाः । अनु तानवधिं कृत्वा गच्छेदवन तद्बहिः ॥ ११२ ॥
१०९.
Loading... Page Navigation 1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162