________________
अणुव्रत चतुष्कशीलसप्तकवर्णनम् ।
वास्तु वस्त्रादिसामान्यं तत्संख्यां क्रियतां बुधैः । अतीचारनिवृत्यर्थं कार्यो नातिक्रमस्ततः ॥ १०० ॥ हिरण्यध्वनिना प्रोक्तं वज्रमौक्तिकसत्फलम् । तेषां प्रमाणमात्रेण क्षणान्मूर्च्छा प्रलीयते ॥ १०१ ॥ अत्र सुवर्णशब्देन ताम्रादिरजतादयः ।
संख्या तेषां च कर्तव्या श्रेयान्नातिक्रमस्ततः ।। १०२ ।। धनशब्दो गवाद्यर्थः स्याच्चतुष्पदवाचकः । विधेयं तत्परिमाणं ततो नातिक्रमो वरः ॥ १०३ ॥ धान्यशब्देन मुद्रादि यावदन्नकदम्बकम् । व्रतं तत्परिमाणेन व्रतहानिरतिक्रमात् ॥ १०४ ॥ दासकर्मरता दासी क्रीता वा स्वीकृता सती । तत्संख्या व्रतशुद्धयर्थं कर्तव्या सानतिक्रमात् ॥ १०५ ॥ यथा दासी तथा दासः संख्या तस्यापि श्रेयसी । श्रेयानतिक्रमो नैव हिंसा तृष्णोपवृंहणात् ॥ १०६ ॥ कुप्यशब्दो घृताद्यर्थस्तद्भाण्डं भाजनानि वा । तेषामप्यल्पीकरणं श्रेयसे स्याद्वतार्थिनाम् ॥ १०७ ॥ उक्ताः संख्याव्रतस्यास्य दोषाः संक्षेपतो मया । परिहार्याः प्रयत्नेन संख्याणुव्रतधारिणा ॥ १०८ ॥ प्रोक्तं सूत्रानुसारेण यथाणुव्रतपञ्चकम् । गुणत्रतत्रयं वक्तुमुत्सहेदधुना कविः ॥ १०९ ॥ दिग्देशानर्थदण्डानां विरतिः स्याद्गुणव्रतम् । एकत्वाद्विरतेश्वापि त्रेधा विषयभेदतः ॥ ११० ॥ दिग्विरतिर्यथा नाम दिक्षु प्राच्यादिकासु च । गमनं प्रतिजानीते कृत्वा सीमानमार्हतः ॥ १११ ॥ सन्त्यत्र विषयाः सीम्नः वननीवृन्नगापगाः । अनु तानवधिं कृत्वा गच्छेदवन तद्बहिः ॥ ११२ ॥
१०९.