SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०८ लाटीसंहितायां तत्रोत्सर्गो नृपर्यायस्थितिमात्रकृते धनम् । रक्षणीयं व्रतस्थैस्तैस्त्याज्यं शेषमशेषतः ॥ ८९॥ . अपवादस्तूपात्तानां व्रतानां रक्षणं यथा । स्याद्वा न स्यात्तु तद्धानिः संख्यातव्यस्तथोपधिः ॥ ९० ॥ रक्षार्थं तद्वतस्यापि भावनाः पञ्च सम्मताः। भावनीयाश्च ता नित्यं यथा सूत्रेपि लक्षिताः ॥ ९१ ॥ तत्सूत्रं यथा-मनोज्ञामनोज्ञेन्द्रियविषय रागद्वेषवर्जनानि पञ्च । इन्द्रियाणि स्फुटं पञ्च पञ्च तद्विषयाः स्मृताः । यथास्वं तत्परित्यागभावनाः पञ्च नामतः ।। ९२ ॥ पश्चस्वेषु मनोज्ञेषु भावना रागवर्जनम् । . . अमनोज्ञेषु तेषूच्चैर्भावना द्वेषवर्जनम् ॥ ९३ ॥ अयमों यदीष्टार्थसंयोगोस्ति शुभोदयात् । तदा रागो न कर्तव्यो हिरण्याद्यपकर्षता ॥ ९४ ॥ अथानिष्टार्थसंयोगो दुर्दैवाज्जायते नृणाम् । तदा द्वेषो न कर्तव्यो धनसंख्यातेप्सिना ।। ९५ ॥ इष्टानिष्टादिशब्दार्थः सुगमत्वान्न लक्षितः । रागद्वेषौ प्रसिद्धौ स्तः प्रयासः सुगमे वृथा ॥ ९६ ॥ अत्रातीचारसंज्ञाः स्युः दोषाः संख्याव्रतस्य च । उदिता सूत्रकारेण त्याज्या व्रतविशुद्धये ॥ ९७ ।। __उक्तं च-क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः। क्षेत्रं स्याद्वसतिस्थानं धान्याधिष्ठानमेव वा । गवाद्यागारमात्रं वा स्वीकृतं यावदात्मना ।। ९८ ॥ ततोऽतिरिक्ते लोभान्मू वृत्तिरतिक्रमः । न कर्तव्यो व्रतस्थेन कुर्वतोपधितुच्छताम् ॥ ९९ ॥ १ त्यागः।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy