________________
अणुव्रतचतुष्कशीलसप्तकवर्णनम् ।
ताभ्यां सरागवागादिवपुस्पर्शोऽथवा रतम् । दोषोऽतीचारसंज्ञोऽपि ब्रह्मचर्यस्य हानये ॥ ७६ ॥ दोषश्चानङ्गक्रीडाख्यः स्वप्नादौ शुक्रविच्युतिः । विनापि कामिनीसङ्गात्क्रिया वा कुत्सितोदिता ॥ ७७ ॥ कामतीव्राभिनिवेशो दोषोतीचारसंज्ञकः । दुर्दान्तवेदनाक्रान्तस्मरसंस्कारपीडितः ॥ ७८ ॥ ननु चास्ति स दुर्वारो दुस्त्याज्या मानसी क्रिया । ब्रह्मव्रतगृहीतस्य सतोत्र वद का गतिः ॥ ७९ ॥ उच्यते गतिरस्यास्ति वृद्धैः सूत्रे प्रमाणिता । यथा कथंचिन्न त्याज्या नीता ब्रह्मव्रतक्रिया ॥ ८० ॥ उक्तं ब्रह्मव्रतं साङ्गमतिचारविवर्जितम् । पालनीयं सदाचारैः स्वर्गमोक्षसुखप्रदम् ॥ ८१ ॥ उपाधिपरिमाणस्य सद्विधिश्चाधुनोच्यते । सति यत्रोदितानां स्याद्व्रतानां स्थितिसन्ततिः ॥ ८२ ॥ मुनिभिः सर्वतस्त्याज्यं तृणमात्रपरिग्रहम् । तत्संख्या गृहिभिः कार्या सहिंसादिहानये ॥ ८३ ॥ अवश्यं द्रविणादीनां परिमाणं च परिग्रहे । गृहस्थेनापि कर्तव्यं हिंसावृष्णोपशान्तये ॥ ८४ ॥ परिमाणे कृते तस्मादवमूर्च्छा प्रवर्तते । अभावान्मूर्च्छायास्तूर्द्धवं मुनित्वमिव गीयते ॥ ८५ ॥ तस्मादात्मोचिताद्द्रव्याद् ह्रासनं तद्वरं स्मृतम् । अनात्मोचितसंकल्पाद् ह्रासनं तन्निरर्थकम् ॥ ८६ ॥ अनात्मोचितसङ्कल्पाद् ह्रासनं यन्मनीषया । कुर्युर्यद्वा न कुर्युर्वा तत्सर्वं व्योमचित्रवत् ॥ ८७ ॥ प्रत्यग्रजन्मनीहेदमन्त्यन्ताभावलक्षणम् । तत्त्यागोपि वरं कैश्चिदुच्यते सारवर्जितम् ॥ ८८ ॥
.
१०७