Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 142
________________ अणुव्रतचतुष्कशीलसप्तकवर्णनम् । तिष्ठेत्स्थानं समासाद्य नीरागं निरवद्यकम् ॥ १९ ॥ तत्रैव निवसेद्र रात्री जागरूको यथावलम्। /" प्रातरादिदिनं कृत्स्नं धर्मध्यानैनयेद्बती ॥१४ जलपानं निषिद्धं स्यान्मुनिवत्तत्र प्रोषधे । । न निषिद्धाऽनिषिद्धा स्यादर्हत्पूजा जलादिभिः ॥ २०७॥ यदा सा क्रियते पूजा न दोषोस्ति तदापि वै । न क्रियते सा तदाप्यत्र दोषो नास्तीह कश्चन ॥ २०१॥ एवमित्यादि तत्रैव नीत्वा रात्रिं स धर्मधीः । कृतक्रियोऽशनं कुर्यान्मध्याह्ने पारणादिने । २०३॥ ब्रह्मचर्यं च कर्तव्यं धारणादि दिनत्रयम् । परयोषिन्निषिद्धा प्रागिदं त्वात्मकलत्रके ॥ २० ॥ स्युः प्रोषधोपवासस्य दोषाः पञ्चोदिताः स्मृतौ । निरस्यास्ते व्रतस्थैस्तैः सागारैरपि यत्नतः ।। २०४॥ तत्सूत्रं यथा-अप्रत्यवेक्षिताप्रमोर्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि । जीवाःसन्ति नवा सन्ति कर्तव्यं प्रत्यवेक्षणम् । चक्षुर्व्यापारमात्रं स्यात्सूत्रात्तल्लक्षणं यथा ॥ २० ॥ प्रमार्जनं च मृदुभिः यथोपकरणैः कृतम् ।। उत्सर्गादानसंस्तरविषयं चोपवृंहणम् ॥ २०६॥ अप्रत्यवेक्षितं तत्र यथा स्यादप्रमार्जितम् । । मूत्राद्युत्सर्ग एवास्ति दोष: प्रोषधसंयमे ॥ २० ॥ यथोत्सर्गस्तथादानं संस्तरोपक्रमस्तथा । तन्नामानो व्यतीचारा दोषाः प्रोक्ता व्रतस्य ते ॥२०॥ ज्ञेयः पूर्वोक्तसंदर्भादनुत्साहोप्यनादरः । प्रोषधो पोषितस्यास्य दोषोतीचारसंज्ञकः ॥ २०॥ स्यात्स्मृत्यनुपस्थानं दूषणं प्रोषधस्य तत् ।

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162