Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 131
________________ १०६ ___ लाटीसंहितायां चक्षुर्गण्डाधरग्रीवास्तनोदरनितम्बकान् । पश्येत्तन्मनोहराङ्गनिरीक्षणमत्यादरात् ॥ ६४ ॥ न कर्तव्यं तदङ्गानां भाषणं वा निरीक्षणम् । कायेन मनसा वाचा ब्रह्माणुव्रतधारिणा ।। ६५ ॥ रतं मोहोदयात्पूर्वं सार्द्धमन्याङ्गनादिभिः । तत्स्मरणमतीचारं पूर्वरतानुस्मरणम् ॥ ६६ ॥ ब्रह्मचर्यव्रतस्यास्य दोषोयं सर्वतो महान् । त्याज्यो ब्रह्मपयोजांशुमालिना ब्रह्मचारिणा ।। ६७ ॥ वृषमन्नं यथा माषाःपयश्चेष्टरसः स्मृतः । वीर्यवृद्धिकरं चान्यत्त्याज्यमित्यादि ब्रह्मणे ॥ ६८ ॥ स्नेहाभ्यङ्गादिस्नानानि माल्यं मृक् चन्दनानि च । कुर्यादत्यर्थमात्रं चेद् ब्रह्मातीचारदोषकृत् ॥ ६९ ।। स्वशरीरसंस्काराख्यो दोषोयं ब्रह्मचारिणः । सर्वतो मुनिना त्याज्यो देशतो गृहमेधिभिः ॥ ७० ॥ भावनाः पञ्चनिर्दिष्टाः सर्वतो मुनिगोचरा। तत्राशक्तिर्गहस्थानां वर्जनीया स्वशक्तितः ॥ ७१ ॥ लक्ष्यन्तेऽत्राप्यतीचाराः ब्रह्मचर्यव्रतस्य ये । पञ्चैवेति यथा सूत्रे सूक्ताः प्रत्यक्षवादिभिः ॥ ७२ ॥ ___ उक्तं च-परविवाहकरणेत्वरिका परिगृहीतापरिगृहीतागमनानङ्ग-- क्रीडाकामतीव्राभिनिवेशाः । परविवाहकरणं दोषो ब्रह्मव्रतस्य यः । व्यक्तो लोकप्रसिद्धत्वात्सुगमे प्रयासो वृथा ॥ ७३ ॥ अयं भावः स्वसम्बन्धिपुत्रादींश्च विवाहयेत् । परवर्गविवाहांश्च कारयेन्नानुमोदयेत् ॥ ७४ ॥ इत्वरिका स्यात्पुंश्चली सा द्विधा प्राग्यथोदिता । काचित्परिगृहीता स्यादपरिगृहीता परा ॥ ७५ ॥

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162