________________
१०२
लाटीसंहितायां
अनासत्यपरित्यागवतेऽतीचारपञ्चकम् । प्रामाणिक प्रसिद्धं स्यात्सूत्रेप्युक्तं महर्षिभिः ॥ १७ ।।
तत्सूत्रं यथा-मिथ्योपदेशरहोभ्याख्यान कूटलेखक्रियान्यासाफहारसाकारमन्त्रभेदाः । . तत्र मिथ्योपदेशाख्यः परेषां प्रेरणं यथा । अहमेवं न वक्ष्यामि वद त्वं मम मन्मनात् ॥ १८ ॥ रहोभ्याख्यानमेकान्ते गुह्यवार्ताप्रकाशनम् । परेषां शङ्ख्या किञ्चिद्धेतोरस्त्यत्र कारणम् ।। १९ ।। कूटलेखक्रिया सा स्याद्वंचनार्थं लिपिम॒षा । सा न साक्षात्तथा तस्या मृषानाचारसम्भात् ॥ २० ॥ किन्तु स्वल्पा यथा कश्चित्किञ्चित्प्रत्यूहनिस्पृहः । इदं मदीयपत्रेषु मदर्थ न लिपीकृतम् ॥ २१ ॥ न्यासस्याप्यपहारो यो न्यासापहार उच्यते । सोपि परस्य सर्वस्वहरो नैव स्वलक्षणात् ॥ २२ ।। किञ्च कश्चिद्यथा सार्थः कस्यचिद्धनिनो गृहे । स्थापयित्वाधनादीनि स्वयं स्थानान्तरं गतः ॥ २३ ॥ वदत्येवं स लोकानां पुरस्तादिह निन्हवात् । धृतं न मे गृहे किश्चित्तेनाऽमाऽर्थेन गच्छता ॥ २४ ॥ उक्तो न्यासापहारः स प्रसिद्धोऽनर्थसूचकः । मृषात्यागव्रतस्योच्चैः दोषः स्यात्सर्वतोमहान् ।। २५ ॥ साकारमन्त्रभेदोपि दोषोतीचारसंज्ञकः । न वक्तव्यः कदाचिद्वै नैष्ठिकैः श्रावकोत्तमैः ।। २६ ॥ दुर्लक्ष्यमर्थं गुह्यं यत्परेषां मनसि स्थितम् । कथंचिदिङ्गितर्ज्ञात्वा न प्रकाश्यं व्रतार्थिभिः ॥ २७ ॥ ननु चैवं मदीयोऽयं ग्रामो देशोऽथवा नरः । इत्येवं यजगत्सर्वं वदत्येतन्मृषा बचः ॥ २८ ॥