________________
अणुव्रत चतुष्कशीलसप्तकवर्णनम् ।
मैवं प्रमत्तयोगाद्वै सूत्रादित्यनुवर्तते । तस्याभावान्न दोषोस्ति तद्भावे दोष एव हि ॥ २९ ॥ एवं संव्यवहाराय स्याददोषो नयात्मके । नानि च स्थापनायां च द्रव्ये भावे जगत्त्रये ॥ ३० ॥ अस्ति स्तेयपरित्यागो व्रतं चाणु तथा महत् । देशतः सर्वतश्वापि त्यागद्वैविध्यसम्भवात् ॥ ३१ ॥ तल्लक्षणं यथा सूत्रे सूक्तं सूत्रविशारदैः । अदत्तादानं स्तेयं स्यात्तदर्थः कथ्यतेऽधुना ॥ ३२ ॥ अदत्तस्य यदादानं चौर्यमित्युच्यते बुधैः । अर्थात्स्वामिगृहीतार्थे सद्द्रव्ये नेतरे पुनः ॥ ३३ ॥ अन्यथा सर्वलोकेस्मिन्नतिव्याप्तिः पदे पदे । अनगारैश्च दुर्वारा विशद्भिर्गोपुरादिषु ॥ ३४ ॥ सर्वतः सर्वविषयं देशतस्त्रसगोचरम् । यतो सागारिणां न स्याज्जलादिपरिवर्जनम् ॥ ३५ ॥ देशतःस्तेयसंत्यागलक्षणं गृहिणां व्रतम् ।
अदत्तं वस्तु नादेयं यस्मिन्नस्ति त्रसाश्रयः ॥ ३६ ॥ रक्षार्थं तस्य कर्तव्या भावनाः पञ्च नित्यशः । सर्वतो मुनिनाथेन देशतः श्रावकैरपि ॥ ३७ ॥
१०३
तत्सूत्रं यथा-शून्यागारविमोचितावास परोपरोधाकरणभैक्ष्यशुद्धिसद्धर्माविसंवादाः पञ्च
शून्यागारेषु चावासा भूभृतां गह्वरादयः । तदिन्द्रादिविरोधेन न वास्तव्यमिहामुना ॥ ३८ ॥
किन्तु प्राक् प्रार्थनामित्थं कृत्वा तत्रापि संविशेत् । प्रसीदात्रत्य भो देव ! पंचरात्रं वसाम्यहम् ॥ ३९ ॥ निःस्वामित्वेन संत्यक्ताः गृहाः सन्त्युद्वसाह्वयाः । प्राग्वदत्रापि वसतिं न कुर्यात्कुर्याद्वा तथा ॥ ४० ॥