________________
लाटीसंहितायां
स्वामित्वेन वसत्यादि परैः स्यादुपरुन्धितम् । परोपरोधाकरणमाहुः सूत्रविशारदाः ॥ ४१ ॥ तत्स्वामिनमनापृच्छय स्थातव्यं न गृहिव्रतैः । स्थातव्यं च तमापृच्छय दीयमानं तदाज्ञया ॥ ४२ ॥ भैक्ष्यशुद्धथविसंवादो भावनीयो व्रतार्थिना । सर्वतो मुनिनाथेन देशतो गृहमेधिना ।। ४३ ॥ नादेयं केनचिद्दत्तमन्येनातत्स्वामिना । तत्स्वामिनश्च प्रच्छन्नवृत्त्या तत्स्याददत्तवत् ॥ ४४ ॥ आत्मधर्मः सधर्मी स्यादर्थाज्जैनो व्रतान्वितः । तेन कारापितं यावज्जिनचैत्यगृहादि यत् ।। ४५ ॥ तत्रापि निवसेद्धीमान् क्षणं यावत्तदाज्ञया । तदाज्ञामन्तरेणेह न स्थातव्यमुपेक्षया ॥ ४६॥ भावनापश्चकं यावदत्रोक्तं चांशमात्रतः । स्वर्णाद्यपि च नादेयमदत्तं वसनादि वा ॥ ४७ ॥ अत्रापि सन्त्यतीचाराः पञ्चेति सूत्रसम्मताः । त्याज्या:स्तेयपरित्यागव्रतसंशुद्धिहेतवे ॥४८॥
उक्तं च-“ स्तेनप्रयोग तदाहृतादान विरुद्धराज्यादिक्रम हीनाधिकमानोन्मान प्रतिरूपक व्यवहाराः । परस्य प्रेरणं लोभात्स्तेयं प्रति मनीषिणा । स्तेनप्रयोग इत्युक्तः स्तेयातीचारसंज्ञकः ॥ ४९ ॥ अप्रेरितेन केनापि दस्युना स्वयमाहृतम् । - गृह्यते धनधान्यादि तदाहृतादानं स्मृतम् ॥ ५० ॥ नादेयं दीयमानं.वा पुण्यदानेन चापि तत् । स्तेयत्यागव्रतस्यास्य स्वामिनात्महितैषिणा ॥ ५१ ॥ राज्ञाज्ञापितमात्मेत्थं युक्तं वाऽयुक्तमेव तत् । क्रियते न यदा स स्याविरुद्धराज्यातिक्रमः ॥ ५२ ।।