________________
अणुव्रतचतुष्कशीलसप्तकवर्णनम् ।
अ
सत्यमेव्यसत्यतां याति कचिद्धिसानुबन्धतः । सर्वतस्तन्न वक्तव्यं यथा चोरादिदर्शनम् ॥ ६॥ असत्यं सत्यतां याति कचिज्जीवस्य रक्षणात् । अचक्षुषा मया चोरो न दृष्टोऽस्ति यथाध्वनि ॥ ७ ॥ तत्रासत्यवचस्त्यागत्रतरक्षार्थमेव याः ।
१०१
भावनाः पञ्च सूत्रोक्ताः भावनीया व्रतार्थिभिः ॥ ८ ॥ तत्सूत्रं यथा क्रोध लोभ भी रुत्व हास्य प्रत्याख्यानान्यनुवीचिभाषणं
च पञ्च ।
यत्र क्रोधप्रत्याख्यानं वचो वाच्यं मनीषिभिः । स्वपराश्रितभेदेन तद्वचश्च द्विधोच्यते ॥ ९॥ स्वयं क्रोधेन सत्यं वा न वक्तव्यं कदाचन । न च वाच्यं वचस्तद्वत्परेषां क्रोधकारणम् ॥ १० ॥ यथा क्रोधस्तथा मानं माया लोभस्तथैव च । तेषामवद्यहेतुत्वे मृषावाद्वाविशेषतः ॥ ११ ॥ हास्योज्झितं च वक्तव्यं न च हास्याश्रितं कचित् । तदपि द्विविधं ज्ञेयं स्वपरोभयभेदतः ॥ १२ ॥ स्वयं हास्यवता भूत्वा न वक्तव्यं प्रमादतः । न च वाच्यं परेषां वा हास्यहेतुर्विचक्षणैः ॥ १३ ॥ हास्योपलक्षणेनैव नोकषाया नवेति ये । तेपि त्याज्या मृषात्यागत्रत संरक्षणार्थिभिः ॥ १४॥ भीरुत्वोत्पादकं रौद्रं वचो वाच्यं न श्रावकैः । अवश्यं बन्धहेतुत्वात्तीत्रासातादिकर्मणाम् ॥ १५ ॥ आलोचितं च वक्तव्यं न वाच्यमनालोचितम् । चौर्यादिविकथाख्यानं न वाच्यं पापभीरुणा ।। १६ ।।
१ सत्यमसत्यतां याति ।