Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 114
________________ प्रथमाणुव्रतवर्णनम् । उक्तं च। सम्माइही जीवो उवइह पंवयणं च सद्दहदि । सदहदि असव्भावं अजाणमाणो गुरुणियोगा ॥ अत्र सूत्रे चकारस्य ग्रहणं विद्यते स्फुटम् । तस्यार्थष्टीकाकारेण टीकायां प्रकटीकृतः ।। १३५ ॥ टीका व्याख्या यथा कैश्चिज्जीवो यः सम्यग्दृष्टिमान् । उपदिष्टं प्रवचनं जिनोक्तं श्रद्दधाति सः ॥ १३६ ।। चकारग्रहणादेव न कुर्यात्त्रसहिंसनम् । विना कार्य कृपार्द्रत्वात्प्रशमादिगुणान्वितः ।। १३७ ॥ एवमित्यत्र विख्यातं कथितं च जिनागमे । स एवार्थो यद्यत्रापि व्रतित्वं हि कुतोऽर्थतः ॥ १३८ । तत्पश्चमगुणस्थाने दिग्मानं व्रतमिच्छता । त्रसकायबधार्थं या क्रिया त्याज्याखिलापि च ॥ १३९ ।। ननु जलानलोय॑न्नसद्वनस्पतिकेषु च ।। प्रवृत्तौ तच्छ्रिताङ्गानां प्रसानां तत्र का कथा ।। १४० ॥ नैष दोषोल्पदोषत्वाद्यद्वा शक्यविवेचनात् । निष्प्रमादतया तत्र रक्षणे यत्नतत्परात् ।। १४१ ।। एवं चेत्तर्हि कृष्यादौ को दोषस्तुल्यकारणात् । अशक्यपरिहारस्य तद्वत्तत्रापि सम्भवात् ।। १४२ ॥ अपि तत्रात्मनिन्दादिभावस्यावश्यभावतः। .. प्रमत्तयोगाद्यभावस्य यथास्खं सम्भवादपि ।। १४३ ॥ जलादावपि विख्यातास्त्रसाः सन्युपलब्धितः । कृष्यादौ च त्रसाः सन्ति विख्याता क्षितिमण्डले ॥ १४४ ॥ नैवं यतोऽनभिज्ञोसि हिंसाणुव्रतलक्षणे । सतृणाभ्यवहारित्वं भुंजानो द्विरदादिवत् ॥ १४५ ॥ १ 'ख' पुस्तके " वास्ति " इति पाठः ।

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162