SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रथमाणुव्रतवर्णनम् । उक्तं च। सम्माइही जीवो उवइह पंवयणं च सद्दहदि । सदहदि असव्भावं अजाणमाणो गुरुणियोगा ॥ अत्र सूत्रे चकारस्य ग्रहणं विद्यते स्फुटम् । तस्यार्थष्टीकाकारेण टीकायां प्रकटीकृतः ।। १३५ ॥ टीका व्याख्या यथा कैश्चिज्जीवो यः सम्यग्दृष्टिमान् । उपदिष्टं प्रवचनं जिनोक्तं श्रद्दधाति सः ॥ १३६ ।। चकारग्रहणादेव न कुर्यात्त्रसहिंसनम् । विना कार्य कृपार्द्रत्वात्प्रशमादिगुणान्वितः ।। १३७ ॥ एवमित्यत्र विख्यातं कथितं च जिनागमे । स एवार्थो यद्यत्रापि व्रतित्वं हि कुतोऽर्थतः ॥ १३८ । तत्पश्चमगुणस्थाने दिग्मानं व्रतमिच्छता । त्रसकायबधार्थं या क्रिया त्याज्याखिलापि च ॥ १३९ ।। ननु जलानलोय॑न्नसद्वनस्पतिकेषु च ।। प्रवृत्तौ तच्छ्रिताङ्गानां प्रसानां तत्र का कथा ।। १४० ॥ नैष दोषोल्पदोषत्वाद्यद्वा शक्यविवेचनात् । निष्प्रमादतया तत्र रक्षणे यत्नतत्परात् ।। १४१ ।। एवं चेत्तर्हि कृष्यादौ को दोषस्तुल्यकारणात् । अशक्यपरिहारस्य तद्वत्तत्रापि सम्भवात् ।। १४२ ॥ अपि तत्रात्मनिन्दादिभावस्यावश्यभावतः। .. प्रमत्तयोगाद्यभावस्य यथास्खं सम्भवादपि ।। १४३ ॥ जलादावपि विख्यातास्त्रसाः सन्युपलब्धितः । कृष्यादौ च त्रसाः सन्ति विख्याता क्षितिमण्डले ॥ १४४ ॥ नैवं यतोऽनभिज्ञोसि हिंसाणुव्रतलक्षणे । सतृणाभ्यवहारित्वं भुंजानो द्विरदादिवत् ॥ १४५ ॥ १ 'ख' पुस्तके " वास्ति " इति पाठः ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy