________________
लाटीसहितायां
देशशब्दोऽत्र स्थूलार्थे तथा भावाद्विवक्षितः । कारणात्स्थूलहिंसादेत्यागस्यैवात्र दर्शनात् ॥ १२३ ॥ स्थूलत्वमार्दवं स्थूलत्रसरक्षादिगोचरम् । अतिचाराविनाभूतं सातिचारं च सास्रवम् ॥ १२४ ।। तद्यथा यो निवृत्तः स्याद्यावत्रसवधादिह । न निवृत्तस्तथा पंचस्थावरहिंसया गृही ॥ १२५ ॥ विरताविरताख्यः स स्यादेकस्मिन्ननेहसि। । लक्षणात्त्रसहिंसायास्त्यागेऽणुव्रतधारकः ॥ १२६॥
. उक्तं च । जो तसवहाउविरओ अविरओ तह थावर वहाओ ।' एकसमयम्हि जीवो विरदाविरदो जिणेकमई ॥ अत्र तात्पर्यमेवैतत्सर्वारम्भेण श्रूयताम् । त्रसकायबधाय स्याक्रिया त्याज्याहितावती ॥ १२७ ॥ क्रियायां यत्र विख्यातस्त्रसकायबधो महान् । तां तां क्रियामवश्यं स सर्वामपि परित्यजेत् ॥ १२८ ॥ अत्राप्याशङ्कते कश्चिदात्मप्रज्ञापराधतः । कुर्याद्धिंसां स्वकार्याय न कार्या स्थावरक्षतिः ॥ १२९ ॥ अयं तेषां विकल्पो यः स्याद्वा कपोलकल्पनात् । अर्थाभासस्य भ्रान्तेर्वा नैवं सूत्रार्थदर्शनात् ॥ १३० ॥ तद्यथा सिद्धसूत्रार्थे दर्शितं पूर्वसूरिभिः । तत्रार्थोयं विना कार्य न कार्या स्थावरक्षतिः ॥ १३१ ।। एतत्सूत्र विशेषार्थेऽनवदत्तावधानकैः । नूनं तैः स्खलितं मोहात्सर्वसामान्यसमहात् ।। १३२ ।। किञ्च कार्य विना, हिंसां न कुर्यादितिधीमता। दृष्टेस्तुर्यगुणस्थाने कृतार्थत्वा गात्मनः ॥ १३३ ॥ तदुक्तं गोम्मटसारे सिद्धान्ते सिद्धसाधने । तत्सूत्रं च यथाम्नायात्प्रतीत्यै वच्मिसाम्प्रतम् ॥ १३४ ।।