________________
प्रथमाणुव्रतवर्णनम् ।
उक्तं च ।
मेरदुव जीवदु जीवो अयदाचारस्स णिच्छिदा हिंसा | पयदस्स णत्थिबंधो हिंसामित्तेण विरद्स्स ॥ ननु प्रमत्तयोगो यस्त्याज्यो हेयः स एव च । प्राणिपीडा भवेन्मा वा कामचारोस्तु देहिनाम् ॥ ११५ ॥ मैवं स्यात्कामचारोऽस्मिन्नवश्यं प्राणिपीडनात् । विना प्रमत्तयोगाद्वै कामचारो न दृश्यते ॥ ११६ ॥ उक्तं च । तथापि न निरर्गलं चरितुमिष्यते ज्ञानिनाम् । तदायतनमेव सा किल निरर्गला व्यावृतिः ॥ अकामकृतकर्म तन्मतमकारणं ज्ञानिनां । द्वयं न हि विरुद्ध्यते किमु करोति जानाति च ॥ सिद्धमेतावता नूनं त्याज्या हिंसादिका क्रिया । त्यक्तायां प्रमत्तयोगस्तत्रावश्यं निवर्तते ॥ ११७॥ • अत्यक्तायां तु हिंसादिक्रियायां द्रव्यरूपतः । भावः प्रमत्तयोगोपि न कदाचिन्निवर्तते ॥ ११८ ॥ ततः साधीयसी मैत्री श्रेयसे द्रव्यभावयोः । न श्रेयान कदाचिद्वै विरोधो वा मिथोनयोः ॥ ११९ ॥ ननु हिंसा निषिद्धा स्याद्यदुक्तं तद्धि सम्मतः । तस्य देशतो विरति स्तत्कथं तद्वदाद्य नः ॥ १२० ॥ उच्यते श्रृणु भो प्राज्ञ तच्छ्रोतुंकाम फामन । देशतो विरतेर्लक्ष्म हिंसाया वच्मि साम्प्रतम् ॥ १२१ ॥ अत्रापि देशशब्देन विशिष्टोंशो विवक्षितः ।
न यथाकाममात्मोत्थं कश्चिदन्यतमोंशकः ॥ १२२ ॥
सविदस्त
८७
१ म्रियते वा जीवतु जीवः अयत्नाचारस्य निश्चिता हिंसा । प्रयतस्य नास्ति बन्धः हिंसामात्रेण विरतस्य ॥ २ प्रमत्तस्य । ३ प्रमादगृहं अज्ञानस्य गृहम् ४ अतः कारणात् ज्ञानिनां निरर्गलं चरितुं न इष्यते ।