________________
लाटीसंहितायां
व्यपरोपणं प्राणानां जीवाद्विश्लेषकारणम् । नाशकारणसामग्री सांनिध्यं वा बहिष्कृतम् ॥ १०३ ॥ अर्थात्तज्जीवद्रव्यस्य नाशो नैवात्र दृश्यते । किन्तु जीवस्य प्राणेभ्यो वियोगो व्यपरोपणम् ।। १०४ ॥ ननु प्राणवियोगोपि स्यादनित्यः प्रमाणसात् । यतः प्राणान्तरान् प्राणी लभते नात्र संशयः ।। १०५ ॥ मैवं प्राणान्तरप्राप्तौ पूर्वप्राणप्रपीडनात् । प्राणभृदुःखमाप्नोति निर्वाच्यं मारणान्तिकम् ॥ १०६ ॥ कर्मासात हि बध्नाति प्राणिनां प्राणपीडनात् । येन तेन न कर्तव्या प्राणिपीडा कदाचन ।। १०७ ॥ ततो न्यायागतं चैतद्यद्यद्वाधाकरं चितः । कायेन मनसा वाचा तत्तत्सर्वं परित्यजेत् ॥ १०८ ॥ तस्मात्त्वं मा वदासत्यं चौर्यं माचर पापकृत । माकुरु मैथुनं काश्चिन्मूच्छी वत्स परित्यज ॥ १०९॥ यतः क्रियाभिरेताभिः प्राणिपीडा भवेद् ध्रुवम् । प्राणिनां पीडयावश्यं बन्धः स्यात्पापकर्मणः ॥ ११०॥ तदेकाक्षादिपञ्चाक्षपर्यन्त दुःखभीरुणा । दातव्यं निर्भयं दानं मूलं व्रततरोरिव ॥ १११ ॥ नन्वेवमीर्यासमितौ सावधानेमुनावपि । अतिव्याप्तिर्भवेत्कालप्रेरितस्य मृतौ चितः ॥ ११२ ॥ मैवं प्रमत्तयोगत्वाद्धेतोरध्यक्षजाग्रतः । तस्याभावान्मुनौ तत्र नातिव्याप्तिर्भविष्यति ।। ११३ ।। एवं यत्रापि चान्यत्र मुनौ वा गृहमेधिनि । नैव प्रमत्तयोगोस्ति न बन्धो बन्धहेतुकः ॥ ११४ ॥ १ घातं । २ जीवस्य।