SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रथमाणुव्रतवर्णनम् । साधारणा निकोताश्च सन्त्येवैकार्थवाचकाः । घृतघटवद्यः सूक्ष्मैर्लोकोयं संभृतोखिलः ॥ ९१ ॥ आधाराधेयहेतुत्वाद् वादराः स्युः कचित्कचित् । तेपि प्रतिष्ठिताः केचिनिकोतैश्चाप्रतिष्ठिताः ॥ ९२ ॥ तैराश्रिता यथा प्रोक्ताः प्रागितो मूलकादयः । अनाश्रिता यथैतैश्च ब्रीहयश्चणकादयः ॥ ९३ ॥ तत्रैकस्मिन् शरीरेपि सन्त्यनन्ताश्च प्राणिनः । प्रत्येकाश्च निकोताश्च नाम्ना सूत्रेषु संज्ञिताः ॥ ९४ ॥ उक्तं च । एय णिगोयसरीरे जीवा दव्वप्पमाणदो दिहा।। सिद्धेहि अणंतगुणा सव्वेण वितीदकालेण ।। फलमेतावदुक्तस्य तद्बोधस्याथवार्थतः । यत्नस्तद्रक्षणे कार्यः श्रावकैदुःखभीरुभिः ।। ९५ ॥ उक्तमेकाक्षजीवानां संक्षेपाल्लक्षणं यथा । साम्प्रतं द्वीन्द्रियादीनां त्रसानां वच्मि लक्षणम् ॥ ९६ ॥ तल्लक्षणं यथा सूत्रे त्रसाःस्युर्तीन्द्रियादयः । पर्याप्तापर्याप्तकाश्च प्रत्येकं ते द्विधा मताः ॥ ९७ ।। कृमयो द्वीन्द्रियाः प्रोक्तास्त्रीन्द्रियाश्च पिपीलिकाः । प्रसिद्धसंज्ञकाश्चैते भ्रमराश्चतुरिन्द्रियाः ॥ ९८ ॥ पञ्चेन्द्रिया द्विधा ज्ञेयाः संज्ञिनोऽसंज्ञिनस्तथा । संज्ञिनस्तत्र पश्चाक्षाः देवनारकमानुषाः ॥ ९९ ॥ तिर्यश्चस्तत्र पश्चाक्षाः संज्ञिनोऽसंज्ञिनस्तथा । प्रत्येकं ते द्विधा ज्ञेया सम्मूछिमाश्च गर्भजाः ॥ १० ॥ लब्ध्यपर्याप्तकास्तत्र तिर्यञ्चों मनुजाश्च ये । असंज्ञिनो भवन्त्येव सम्मूञ्छेिमा न गर्भजाः ।। १०१ ।। इति संक्षेपतोप्यत्र जीवस्थानान्यचीकथत् । तत्स्वरूपं परिज्ञाय कर्तव्या करुणा जनैः ।। १०२॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy