________________
८४
लाटीसंहितायांrammar क्षुद्रभवायुरेतद्वा सर्वजधन्यमागमात् । तद्वदायुर्विशिष्टास्ते जीवाश्चातीव दुःखिताः ॥ ८१ ॥
उक्तं च। तिण्णिसयाछत्तीसाछावहिसहस्सवार मरणाई । अंतोमुहुत्तकाले तावदिया चेव खुद्दभवा ॥ अत्रापर्याप्तशब्देन लब्ध्यपर्याप्तको मतः । अपर्याप्तकजीवस्तु स्यात्पर्याप्तक एव हि ।। ८२ ।। एवं ज्ञेयं जलादीनां लक्ष्म नो देशितं मया । ग्रन्थगौरवभीतेर्वा पुनरुक्तभयादपि ॥ ८३ ॥ किश्चिद्भम्यादिजीवानां चतुर्णां प्रोक्तलक्ष्मणाम् । धातुचतुष्कमेतेषां संज्ञास्याज्जिनशासनात् ।। ८४ ॥ अथ धातुचतुष्काङ्गाः सम्भवन्त्यप्रतिष्ठिताः । साधारणनिकोताङ्गैस्तैर्वनस्पतिकायिकैः ।। ८५ ॥
उक्तं च । पुढवी आइचउण्हं तित्थयराहारदेवणिरयंगा। अपदिहिदा णिगोदै पदिहिदंगा हवे सेसा ।। किन्तु धातुचतुष्कस्य पिण्डे सूच्यप्रमात्रके । एकाक्षाः सन्त्यसंख्याता नानन्ता नापिसंख्यकाः ॥ ८६ ॥ अयमर्थः पृथिव्यादिकाये यत्नो विधीयताम् । तद्वधादिपरित्यागवृत्तमावेपि श्रावकैः ॥ ८७ ॥ अनन्तानन्तजीवास्तु स्युर्वनस्पतिकायिकाः । पूर्ववत्तेपि सूक्ष्माश्च वादराश्चेति भेदतः ॥ ८८ ॥ पर्याप्तापर्याप्तकाश्च प्रत्येकं चेति ते द्विधा । प्रत्येकाः साधारणाश्च विज्ञेया जैनशासवात् ।। ८९ ।। सूक्ष्मवादरपर्याप्तापर्याप्तानां च लक्षणम् । ज्ञातव्यं यत्प्रागत्रैव निर्दिष्टं नातिविस्तरात् ॥ ९०॥