________________
९०
लाटीसंहितायां
h
vvvvvvwwwwww
वच्म्यहं लक्षणं तस्य सावधानतया श्रृणु । क्षणं प्रमादमुत्सृज्य गर्हितावद्यकारणम् ।। १४६ ॥ अणुत्वमल्पीकरणं तच्च गृद्धेरिहार्थतः । यथावद्यस्य हिंसादेर्हृषीकविषयस्य च ॥ १४७ ॥ कृष्यादयो महारम्भाः क्रूरकर्मार्जनक्षमाः । तक्रियानिरतो जीवः कुतोऽहिंसावकाशवान् ॥ १४८ ॥ नचाशङ्कयं हि कृष्यादिमहारम्भे क्रिया तु या। सत्स्वल्पीकरणं चार्थाद्धिंसाणुव्रतमिष्यते ॥ १४९ ॥ यतः स्वल्पीकृतोप्यत्र महारम्भः प्रवर्तते । महावद्यस्य हेतुत्वात्तद्वान्नाणुव्रती भवेत् ॥ १५० ॥ अलं वा बहुनोक्तेन वावदूकतयाप्यलम् । त्रसहिंसाक्रिया त्याज्या हिंसाणुव्रतधारिणा ।। १५१ ।। ननु त्यक्तुमशक्यस्य महारम्भानशेषतः । इच्छतः स्वल्पीकरणं कृष्यादेस्तस्य का गतिः ॥ १५२ ॥ अस्ति सम्यग्गतिस्तस्य साधु साधीयसी जिनैः । कार्या पुण्यफलाश्लाघ्या क्रियामुत्रेह सौख्यदा ॥ १५३ ।। यथाशक्ति महारम्भात्स्वल्पीकरणमुत्तमम् । विलम्बो न क्षणं कार्यो नात्र कार्या विचारणा ॥ १५४॥ हेतुरस्त्यत्र पापस्य कर्मणः संवरोंशतः । न्यायागतः प्रवाहश्च न केनापि निवार्यते ॥ १५५ ॥ साधितं फलवन्न्यायात्प्रमाणितं जिनागमात् । युक्तः स्वानुभवाचापि कर्तव्यं प्रकृतं महत् ॥ १५६ ॥ तत्रागमो यथा सूत्रादाप्तवाक्यं प्रकीर्तितम् । पूर्वापराविरुद्धं यत्प्रत्यक्षाद्यैरवाधितम् ॥ १५७ ॥
उक्तं च । यथार्थदर्शिनः पुंसो यथादृष्टार्थवादिनः । उपदेशः परार्थो यः स इहागम उच्यते ।।