________________
प्रथमाणुव्रतवर्णनम् ।
N
AVANA
आगमः स यथा द्वेधा हिंसादेरपकर्षणम् । यमादेकं द्वितीयं तु नियमादेव केवलात् ॥ १५८ ॥ यमस्तत्र यथा यावज्जीवनं प्रतिपालनम् । दैवाद्घोरोपसर्गेपि दुःखे वामरणावधि ॥ १५९ ॥ यमोपि द्विविधो ज्ञेयः प्रथमः प्रतिमान्वितः । अन्यः सामान्यमात्रत्वात्स्पष्टं तल्लक्षणं यथा ॥ १६० ॥ यावज्जीवं त्रसानां हि हिंसादेरपकर्षणम् । सर्वतस्तक्रियायाश्चेत्प्रतिमारूपमुच्यते ॥ १६१ ॥ अथसामान्यरूपं तद्यदल्पीकरणं मनाक् । .. यावज्जीवनमप्येतद्देशतो न (तु) सर्वतः ॥ १६२ ॥ आह कृषीवलः कश्चिदद्विशतं न च करोम्यहम् । शतमात्रं करिष्यामि प्रतिमास्य न कापि सा ॥ १६३ ।। नियमोपि द्विधा ज्ञेयः सावधिर्जीवनावधिः । त्रसहिंसाक्रियायाश्च यथाशक्त्यपकर्षणम् ॥ १६४ ॥ सावधिः स्वायुषोयावदर्वागेव व्रतावधिः । ऊर्दू यथात्मसामर्थ्यं कुर्याद्वा न यथेच्छया ॥ १६५ ॥ पुनः कुर्यात्पुनस्त्यक्त्वा पुनः कृत्वा पुनस्त्यजेत् । न त्यजेद्वा न कुर्याद्वा कारं कारं करोति च ॥ १६६ ॥ अस्ति कश्चिद्विशेषोपि द्वयोर्यमनियमयोः । नियमो दृक्प्रतिमायां व्रतस्थाने यमो मतः ॥ १६७ ।। अयं भावो व्रतस्थाने या क्रियाभिमता सताम् । तां सामान्यतः कुर्वन्सामान्ययम उच्यते ॥ १६८ ॥ प्रतिमायां क्रियायों तु प्रागेवात्रापि सूचिता । यावज्जीवं हि तां कुर्वनियमोऽनवधिः स्मृतः ॥ १६९ ॥
१ " दुःखं वा " इति क पुस्तके पाठः ।
.