SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ९२ लाटीसंहितायां wwwwwwwwwwwwwwmarnamanwwwwwwnxnww उक्तं सम्यक् परिज्ञाय गृहस्थो व्रतमाचरेत् । यथाशक्ति यथाकालं यथादेशं यथावयः ।। १७० ॥ त्रसहिंसाक्रियात्यागो यदि कर्तुं न शक्यते । व्रतस्थानाग्रहेणालं दर्शनेनैव पूर्यताम् १७१ ॥ व्रतस्थानक्रियां कर्तुमशक्योपि यदीप्सति । व्रतंमन्योपि संमोहाबताभासोस्ति न व्रती ॥ १७२ ।। अलं कोलाहलेनालं कर्तव्याः श्रेयसः क्रियाः । फलमेव हि साध्यं स्यात्सर्वारम्भेण धीमता ॥ १७३ ॥ त्रसहिंसाक्रियात्यागशब्दः स्यादुपलक्षणम् । तेन भूकायिकादींश्च निःशकं नोपमर्दयेत् ॥ १७४ ।। किन्तु चैकाक्षजीवेषु भूजलादिषु पञ्चसु । अहिंसाव्रतशुद्धयर्थं कर्तव्यो यत्नो महान् ॥ १७५ ॥ त्रसहिंसाक्रियात्यागी महारम्भं परित्यजेत् । नारकांणां गतेजिं नूनं तदुःखकारणम् ॥ १७६ ।। उक्तं च । मिच्छो हु महारंभो निस्सीलो तिव्वलोहसंजुत्तो। निरयाउगं णिबद्धइ पावमयी रुद्दपरिणामो ॥ क्रूरं कृष्यादिकं कर्म सर्वतोपि न कारयेत् । वाणिज्यार्थं विदेशेषु शकटादि न प्रेषयेत् ।। १७७ ॥ क्रयविक्रयवाणिज्ये क्रयेद्वस्तु त्रसोज्झितम् । विक्रयेद्वा तथा वस्तु नूनं सावधवर्जितम् ॥ १७८ ॥ वाणिज्यार्थं न कर्तव्योऽतिकाले धान्यसंग्रहः । घृततैलगुडादीनां भाण्डागारं न कारयेत् ॥ १७९ ॥ लाक्षालोष्टक्षणक्षारशस्त्रचर्मादिकर्मणाम् । हस्त्यश्ववृषादीनां चतुष्पदानां च यावताम् ।। १८० ॥ द्विपदानां च वाणिज्यं न कुर्याद्व्तवानिह । · महारम्भो भवत्येव पशुपाल्यादिकर्मणि ॥ १८१ ॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy