SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रथमाणुव्रतवर्णनम् । शुककुकुरमार्जारीकपिसिंहमृगादयः । न रक्षणीयाः स्वामित्वे महाहिंसाकरा यतः ।। १८२ ॥ इत्यादिकाश्च यावन्त्यः क्रियास्त्रसबधात्मिकाः । न कर्तव्यास्त्रसानां हि हिंसाणुव्रतधारिभिः ।। १८३ ॥ सर्वसागारधर्मेषु देशशब्दोऽनुवर्तते ।। तेनानगारयोग्यायाः कर्तव्यास्ता अपि क्रियाः ॥ १८४ ॥ यथा समितयः पश्च सन्ति तिस्रश्च गुप्तयः । अहिंसाव्रतरक्षार्थ कर्तव्या देशतोऽपि तैः ॥ १८५ ॥ उक्तं तत्त्वार्थसूत्रेषु यत्तत्रावसरे यथा। व्रतस्थैर्याय कर्तव्या भावना पश्च पञ्च च ।। १८६ ॥ तत्सूत्रं यथा-" तत्स्थैर्यार्थ भावनाः पञ्च पञ्च” तत्रापि हिंसा-. त्यागवतरक्षार्थ-" वाग्मनोगुप्तीर्यादाननिक्षेपसमित्यालोकितपान. भोजनानि पञ्च" नचाशङ्कयमिमाः पञ्च भावना मुनिगोचराः । न पुनर्भावनीयास्ता देशतो व्रतधारिभिः ॥ १८७ ॥ यतोत्र देशशब्दो हि सामान्यादनुवर्तते । ततोऽणुव्रतसंज्ञेषु व्रतत्वान्नाव्यापको भवेत् ॥ १८८ ।। अलं विकल्पसंकल्पैः कर्तव्या भावना इमाः । ... अहिंसाव्रतरक्षार्थं देशतोऽणुव्रतादिवत् ॥ १८९ ॥ तत्र वाग्गुप्तिरित्युक्ता त्रसबाधाकरं वचः । न वक्तव्यं प्रमादाद्वा बधबन्धादिसूचकम् ॥ १९० ॥ अवश्यंभाविकार्येपि वक्तव्यं सकृदेव तत् । धर्मकार्येषु वक्तव्यं यद्वा मौनं समाश्रयेत् ॥ १९१ ॥ मनोगुप्तिर्यथानाम सच्छेदे न चिन्तयेत् । .. समुत्पन्नेपि तत्कार्ये जने वा सापराधिनि ॥ १९२ ।। समामादिविधौ चिन्तां न कुर्यात्नैष्ठिको व्रती । अव्रती पाक्षिकः कुर्यादैवयोगात्कदाचन ॥ १९३ ॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy