________________
९४
लाटीसंहितायां
नैष्ठिकोsपि यदा क्रोधान्मोहाद्वा सङ्गरक्रियाम् । कुर्यात्तावतिकाले स भवेदात्मव्रताच्च्युतः ॥ १९४॥ सहिंसाक्रियायां वा नापि व्यापारयन्मनः । मोहाद्वापि प्रमादाद्वा स्वामिकार्येकृतेऽपि वा ॥ १९५ ॥ वीतरागोक्तधर्मेषु हिंसावद्यं न वर्तते । रूढिधर्मादिकार्येषु न कुर्यात्त्रसहिंसनम् '॥ १९६ ॥ 'रूढिधर्मे निषिद्धा चेत्कामार्थयोस्तु का कथा मज्जन्ति द्विरदा यत्र मशकास्तत्र किं पुनः ॥ १९७ ॥ हृषीकार्थादिदुर्थ्यानं वञ्चनार्थं स नैष्ठिकः । चिन्तयेत्परमात्मानं स्वं शुद्धं चिन्मयं महः ॥ १९८ ॥ यद्वा पञ्चपरमेष्ठिस्वरूपं चिन्तयेन्मुहुः | यद्वा त्रैलोक्यसंस्थानं जीवांस्तद्वर्तिनोऽथवा ॥ १९९ ॥ जगत्का स्वभाव वा चिन्तयेत्तन्मुहुर्मुहुः । द्वादशात्राप्यनुप्रेक्षाः धारयेन्मनसि ध्रुवम् ॥ २०० ॥ यद्वा दृष्टिचरात्र जिनबिम्बांश्च चिन्तयेत् । मुनीन् देवालयांश्चापि तत्पूजादिविधीनपि ॥ २०१ ॥ इत्याद्यालम्बनांश्चित्ते भावयेद्भावशुद्धये ॥
न भावयेत्कदाचिद्वै त्रसहिंसां क्रियां प्रति ॥ २०२ ॥ उक्ता वाग्गुप्तित्रैव मनोगुप्तिस्तथैव च । अधुना कायगुप्तेश्च भेदाम् गृह्णातिसूत्रवित् ॥ २०३ ॥ तत्रेर्यादाननिःक्षेपभावना: कायसंश्रिताः । भावनीयाः सदाचारैराजवंजवविच्छिदे ॥ २०४ ॥ अत्रेर्यावचनं यावद्धर्मोपकरणं मतम् । तस्यादानं च निःक्षेपः समासात्तत्तथा स्मृतः ॥ २०५ ॥ अस्यार्थो मुनिसापेक्षः पिच्छका च कमण्डलुः । सरक्षात्रतापेक्षः पूजोपकरणानि च ॥ २०६ ॥