________________
प्रथमाणुत्रतवर्णनम् ।
घण्टाचामरदीपाम्भः परछत्रध्वजादिकान् ।
- स्नानाद्यर्थं जलादींश्च धौतवस्त्रादिकानपि ॥ २०७ ॥ देशनावसरे शास्त्रं दानकाले तु भोजनम् । -काष्ठपट्टादिकं शुद्धं काले सामायिकेऽपि च ।। २०८ ॥ इत्याद्यनेक भेदानि धर्मोपकरणानि च । निष्प्रमादतया तत्र कार्यो यत्नो बुधैर्यथा ॥ २०९ ॥ दृग्भ्यां सम्यग्निरीक्ष्यादौ यत्नतः प्रतिलेखयेत् । समादाय ततस्तत्र कार्ये व्यापारयत्यपि ॥ २१० ॥ दृष्टिपूतं यथादानं निक्षेपोपि यथा स्मृतः । दृष्ट्वा स्थानादिकं शुद्धं तत्र तानि विनिक्षिपेत् ॥ २११ ॥ इतः समितयः पञ्च वक्ष्यन्ते नातिविस्तरात् । ग्रन्थगौरवतोऽप्यत्र नोक्तास्ताः संयतोचिताः ॥ २१२ ॥ संयतासंयतस्यास्य प्रोक्तस्य गृहमेधिनः ।
समितयो या योग्याः स्युर्वक्ष्यन्ते ताः क्रमादपि ॥ २१३ ॥ ईर्यासमितिरप्यस्ति कर्तव्या गृहमेधिना । अत्रेयशब्दो वाच्योस्ति मार्गोऽयं गतिगोचरः ॥ २१४ ॥ दृष्ट्वा दृष्ट्वा शनैः सम्यग्युगदनां धरां पुरः । निष्प्रमादो गृही गच्छेदार्यासमितिरुच्यते ॥ २१५ ॥ किञ्च तत्र विवेकोस्ति विधेयस्त्रसरक्षकैः । - बहुत्रसाकुले मार्गे नं गन्तव्यं कदाचन ॥ २१६ ॥ तत्र विचार्या प्रागेव देशकालगतिर्यथा । प्रष्टव्याः साधवो यद्वा तत्तन्मार्गावलोकिनः ॥ २१७ ॥ निश्चित्य प्रासुकं मार्ग बहुत्रसैरनाश्रितम् । ईर्यासमिति संशुद्धस्तत्र गच्छेन्न चान्यथा ।। २१८ ॥ गच्छंस्तत्रापि देवाचेत्पुरोमार्गस्त्र साकुलः । तदा व्याघुट्टनं कुर्यात्कुर्याद्वा वीरकर्मतत् ॥ २१९॥
९५