SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ९६ लाटीसंहितायां वीरकर्म यथा तत्र पर्यङ्काद्यासनेन वा। कायोत्सर्गेण वा तिष्ठेद्योगिवद्योगमार्गवित् ॥ २२० ।। यावत्तस्योपसर्गस्य निवृत्तिा वपुःक्षतिः । यद्वावधियथाकालं नीत्वाऽस्तीतस्ततो गतिः ।। २२१ ।। सर्वारम्भेण तात्पर्य प्रत्यक्षात्त्रससङ्कुले। मार्गे पादौ न क्षेप्तव्यौ वतिनां मरणावधि ॥ २२२ ॥ किञ्च रजन्यां गमनं न कर्तव्यं दीर्घध्वनि । दृष्टिचरे शुद्धे स्वल्पे न निषिद्धा मार्गेगतिः ॥ २२३ ॥ अश्वाधारोहणं मार्गे न कार्य व्रतधारिणा । ईर्यासमितिसंशुद्धिः कुतःस्यात्तत्र कर्मणि ॥ २२४ ॥ इतीर्यासमितिः प्रोक्ता संक्षेपाव्रतधारिणः । यद्वोपासकाध्ययनात् ज्ञातव्यातीवविस्तरात् ॥ २२५ ॥ अप्यस्ति भाषासमितिः कर्तव्या सद्मवासिभिः । अवश्यं देशमात्रत्वात्सर्वथा मुनिकुञ्जरैः ॥ २२६ ॥ वचो धर्माश्रितं वाच्यं वरं मौनमथाश्रयेत् । हिंसाश्रितं न तद्वाच्यं भाषासमितिरिष्यते ॥ २२७ ॥ इतिसंक्षेपतस्तस्या लक्षणं चात्र सूचितम् । मृषात्यागवताख्याने वक्ष्यामीषत्सविस्तरात् ॥ २२८ ॥ एषणासमितिः कार्या श्रावकैर्धर्मवेदिभिः । यया सागारधर्मस्य स्थितिमुनिव्रतस्य च ॥ २२९ ॥ यतो व्रतसमूहस्य शरीरं मूलसाधनम् । आहारस्तस्य मूलं स्यादेषणासमितावसौ ॥ २३० ।। एषणासमिति ना संक्षेपाल्लक्षणादपि । आहारशुद्धिराख्याता सर्वव्रतविशुद्धये ॥ २३१ ॥ उक्तमांसाद्यतीचारैवर्जितो योऽशनादिकः । स एव शुद्धो नान्यस्तु मांसातीचारसंयुतः ।। २३२ ।।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy