________________
rrrrrrrrrrrwww.mmmmmmmmmmmmmmmmmmmmmm
प्रथमाणुव्रतवर्णनम् । सोपि शुद्धो यथाभक्तं यथाकालं यथाविधिः । अन्यथा सर्वशुद्धोऽपि स्यादशुद्धवदेनकृत् ॥ २३३ ॥ काले पूर्वाह्निके यावत्परतोऽपराह्नेऽपि च । यामस्याड़ न भोक्तव्यं निशायां चापि दुर्दिने ॥ २३४ ॥ याममध्ये न भोक्तव्यं यामयुग्मं न लंघयेत् । आहारस्यास्त्ययं कालो नौषधादेलस्य वा ॥ २३५ ॥ सङ्ग्रामादिदिने हिंस्र चन्द्रसूर्याधुपग्रहे। . अन्यत्राप्यवयोगेषु भोजनं नैव कारयेत् ॥ २३६ ॥ उच्यते विधिरत्रापि भोजयेन्नाशुचिगृहे । तमश्छन्नेऽथ त्रसादिबहुजन्तुसमाश्रिते ॥ २३७ ॥ जैमनीयादिजीवानां हिंस्राणां दृष्टिगोचरे । अश्वादिपशुसङ्कीर्णे स्थाने भोज्यं न जातुचित् ॥ २३८ ॥ अन्तरायाश्च सन्त्यत्र श्रावकाचारगोचराः । अवश्य पालनीयास्ते त्रसहिंसानिवृत्तये ॥ २३९ ॥ दर्शनात्स्पर्शनाच्चैव मनसि स्मरणादपि । श्रवणाद्गन्धनाचापि रसनादन्तरायकाः ॥ २४० ॥ . दर्शनात्तद्यथा सा मांसमधे वसाऽजिनम् । अस्थ्यादि भोजनस्यादौ सद्यो दृष्ट्वा न भोजयेत् ॥ २४१ ॥ शुष्कचर्मास्थिलोमादिस्पर्शनान्नैव भोजयेत् । मूषकादिपशुस्पर्शात्त्यजेदाहारमंजसा ।। २४२ ॥ गन्धनान्मद्यगन्धेव पूतिगन्धेव तत्समे । आगते घ्राणमार्गं च नान्नं भुंजीत दोषवित् ॥ २४३ ॥ प्राक् परिसंख्यया त्यक्तं वस्तुजातं रसादिकम् । भ्रान्त्या विस्मृतमादाय त्यजेद्भोज्यमसंशयम् ॥ २४४ ॥ , "अश्रमश्रुच" इत्यमरः, प्रदराभगनारीरुक बाणाः अस्त्राकचा अपि इत्यमरः ।
७ला. सं.