________________
लाटीसंहितायां
आमगोरससंपृक्तं द्विदलान्नं परित्यजेत् । लालायाःस्पर्शमात्रेण त्वरितं बहुमूर्च्छनात् ॥ २४५ ॥ भोज्यमध्यादशेषांश्च त्रसकलेवरान् । यद्वा समूलतो रोम दृष्ट्रा सद्यो न भोजयेत् ॥ २४६ ॥ चर्मतोयादिसम्मिश्रात्सदोषमशनादिकम् । परिज्ञायेङ्गितैः सूक्ष्मैः कुर्यादाहार वर्जनम् || २४७ ॥
९८
श्रवणाद्धिंसकं शब्दं मारयामीति शब्दवत् । दग्धो मृतः स इत्यादि श्रुत्वा भोज्यं परित्यजेत् ॥ २४८ ॥ शोकाश्रितं वचः श्रुत्वा मोहाद्वा परिदेवनम् । दीनं भयानकं श्रुत्वा भोजनं त्वरितं त्यजेत् ।। २४९ ॥ उपमानोपमेयाभ्यां तदिदं पिशितादिवत् । मनःस्मरणमात्रत्वात्कृत्स्नमन्नादिकं त्यजेत् ।। २५० ॥ सूतकं पातकं चापि यथोक्तं जैनशासने । एषणाशुद्धि सिद्धयर्थं वर्जयेच्छ्रावकाप्रणीः ।। २५१ ।। एषणासमितिःख्याता संक्षेपात्सारसंग्रहात् । तत्रान्तराद्विशेषज्ञैज्ञीतव्यास्ति सुविस्तरात् ।। २५२ ॥ अस्ति चादाननिक्षेप स्वरूपा समितिः स्फुटम् । वस्त्राभरणपात्रादिनिखिलोपधिगोचराः ।। २५३ ॥ यावन्त्युपकरणानि गृहकर्मोचितानि च । तेषामादाननिक्षेप कर्तव्यौ प्रतिलेख्य च ।। २५४ ॥ प्रतिष्ठापननाम्नी च विख्याता समितिर्यथा । श्रवद्वपुर्दशद्वारा मलमूत्रादिगोचरा ।। २५५ ।। निश्च्छिद्रं प्रासुकं स्थानं सर्वदोषविवर्जितम् । दृष्टा प्रमा सागारो वर्चोमूत्रादि निक्षिपेत् ।। २५६ ॥ अस्ति चालोकितपानभोजनाख्याथ पञ्च ताः । भावना भावनीया स्यादहिंसाव्रतहेतवे ।। २५७ ॥