SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रथमाणुव्रतवर्णनम् । शुद्धं शोधितं चापि सिद्धं भक्तादिभोजनम् । सावधानतया भूयो दृष्टिपूतं च भोजयेत् ॥ २५८ ॥ नचानध्यवसायेन दोषेणानवधानतः । मया दृष्टचरं चैतन्मत्वा भोज्यं न भोजयेत् ।। २५९ ॥ तत्र यद्यपि भक्त्यादि शुद्धमस्तीति निश्चितम् । तथापि दोष एव स्यात्प्रमादादिकृतो महान् ॥ २६० ॥ सन्ति तत्राप्यतीचाराः पञ्च सूत्रेपि लक्षिताः । त्रसहिंसापरित्यागलक्षणेऽणुव्रताह्वये ॥ २६१ ॥ __ तत्सूत्रं यथा-बधबन्धच्छेदातिभारारोपणानपाननिरोधाः । अत्रोक्तं बधशब्देन ताडनं यष्टिकादिभिः । प्रागेव प्रतिषिद्धत्वात्प्राणिहत्या न श्रेयसी ॥ २६२ ॥ पशूनां गोमहिष्यादिछागवारणवाजिनाम् । तन्मात्रातिरिक्तां बाधां न कुर्याद्वा कशादिभिः २६३ ।। बन्धो मात्राधिको गाढं दुःखदं शृंखलादिभिः । आतताया (उत्प्रमादाद्वा न कुर्याच्छावकोत्तमः ॥ २६४ ॥ छेदो नाशादिछिद्रार्थः काष्ठसूलादिभिः कृतः । तावन्मात्रातिरिक्तं तन्नविधेयं प्रतिमान्वितैः ॥ २६५ ॥ सापराधे मनुष्यादौ कर्णनाशादि छेदनम् । न कुर्याद्भपकल्पोऽपि व्रतवानपि कश्चन ।। २६६ ॥ भारः काष्ठादिलोष्ठान्नघृततैलजलादिकम् । नेतुं क्षेत्रान्तरे क्षिप्तं मनुजांश्चत्रिकादिषु ।। २६७ ॥ यावद्यस्यास्ति सामर्थ्य तावत्तत्रैव निक्षिपेत् । नातिरिकं ततः कापि निक्षिपद् व्रतधारकः ॥ २६८ ॥ दासीदासादिभृत्यानां बन्धुमित्रादिप्राणिनाम् । सामातिक्रमः कापि कर्तव्यो न विचक्षणैः ।। २६९ ॥ अन्नपाननिरोधाख्यो व्रतदोषोस्ति पञ्चमः । तिरश्चां वा नराणां वा गोचरः स स्मृतो यथा ॥ २७० ॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy