Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 120
________________ प्रथमाणुत्रतवर्णनम् । घण्टाचामरदीपाम्भः परछत्रध्वजादिकान् । - स्नानाद्यर्थं जलादींश्च धौतवस्त्रादिकानपि ॥ २०७ ॥ देशनावसरे शास्त्रं दानकाले तु भोजनम् । -काष्ठपट्टादिकं शुद्धं काले सामायिकेऽपि च ।। २०८ ॥ इत्याद्यनेक भेदानि धर्मोपकरणानि च । निष्प्रमादतया तत्र कार्यो यत्नो बुधैर्यथा ॥ २०९ ॥ दृग्भ्यां सम्यग्निरीक्ष्यादौ यत्नतः प्रतिलेखयेत् । समादाय ततस्तत्र कार्ये व्यापारयत्यपि ॥ २१० ॥ दृष्टिपूतं यथादानं निक्षेपोपि यथा स्मृतः । दृष्ट्वा स्थानादिकं शुद्धं तत्र तानि विनिक्षिपेत् ॥ २११ ॥ इतः समितयः पञ्च वक्ष्यन्ते नातिविस्तरात् । ग्रन्थगौरवतोऽप्यत्र नोक्तास्ताः संयतोचिताः ॥ २१२ ॥ संयतासंयतस्यास्य प्रोक्तस्य गृहमेधिनः । समितयो या योग्याः स्युर्वक्ष्यन्ते ताः क्रमादपि ॥ २१३ ॥ ईर्यासमितिरप्यस्ति कर्तव्या गृहमेधिना । अत्रेयशब्दो वाच्योस्ति मार्गोऽयं गतिगोचरः ॥ २१४ ॥ दृष्ट्वा दृष्ट्वा शनैः सम्यग्युगदनां धरां पुरः । निष्प्रमादो गृही गच्छेदार्यासमितिरुच्यते ॥ २१५ ॥ किञ्च तत्र विवेकोस्ति विधेयस्त्रसरक्षकैः । - बहुत्रसाकुले मार्गे नं गन्तव्यं कदाचन ॥ २१६ ॥ तत्र विचार्या प्रागेव देशकालगतिर्यथा । प्रष्टव्याः साधवो यद्वा तत्तन्मार्गावलोकिनः ॥ २१७ ॥ निश्चित्य प्रासुकं मार्ग बहुत्रसैरनाश्रितम् । ईर्यासमिति संशुद्धस्तत्र गच्छेन्न चान्यथा ।। २१८ ॥ गच्छंस्तत्रापि देवाचेत्पुरोमार्गस्त्र साकुलः । तदा व्याघुट्टनं कुर्यात्कुर्याद्वा वीरकर्मतत् ॥ २१९॥ ९५

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162