Book Title: Lati Samhita
Author(s): Manikchandra Digambar Jain Granthmala Samiti
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
५०
लाटीसंहितायां
सन्मानादि यथाशक्ति कर्तव्यं च सधर्मिणाम् । तिनां चेतरेषां वा विशेषाद् ब्रह्मचारिणाम् ॥ १६५ ॥ नारिभ्योपि बताढयाम्यो न निषिद्धं जिनागमे । देयं सन्मानदानादि लोकानामविरोधतः ॥ १६६ ॥ जिनचैत्यगृहादीनां निर्माणे सावधानता । यथासम्यद्विधेयास्ति दूष्या नावद्यलेशतः ॥ १६७ ॥ सिद्धानामर्हतां चापि यन्त्राणि प्रतिमाः शुभाः। चैत्याभ्येषु संस्थाप्य द्राक् प्रतिष्ठापयेत्सुधीः ।। १६८ ॥ अपि तीर्थादियात्रासु विदध्यात्सोद्यतं मनः । श्रावकः स च बत्रापि संयम न विराधयेत् ॥ १६९ ॥ नित्ये नैमित्तिके चैत्याजिनविम्बमहोत्सवे । शैथिल्यं नैव कर्तव्यं तत्त्वज्ञैस्तद्विशेषतः ॥ १७ ॥ संयमो द्विविधश्चैव विधेयो गृहमेधिभिः । विनापि प्रतिमारूपं व्रतं यद्वा स्वशक्तितः ॥ १७१ ॥ तपो द्वादशधा द्वेधा बाह्याभ्यन्तरभेदतः । कृत्स्नमन्यतमं वा तत्कार्य चानतिवीर्यवान् ॥ १७२ ॥ उक्तं दिग्मात्रतोप्यत्र प्रसङ्गाद्वा गृहिब्रतम् । वक्ष्ये चोपासकाध्यायं सावकाशं सविस्तरम् ॥ १७३ ।। इति श्री स्याद्वादानवद्यगद्यपद्यविद्याविशारदविद्वन्मणिराजमल्लविरचितायां श्रावकाचारापरनामलाटीसंहितायां साधूश्री दूदात्मजफामनमनःसरोजाराविन्द विकाशनकमार्तण्डमण्डलायमानायां दर्शनप्रतिमाधिकारमध्ये सम्यग्दर्शनसामान्यलक्षणवर्णनो नाम तृतीयः सर्गः।
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162