________________
काव्यकल्पलतावृत्तिः
नाभेरम्भोजमावर्तो ह्रदो विवरकूपको । त्रिवल्या वीचिसोपाननिश्रेण्यो, जघनस्य तु ।। २९ ।। पुलिनं पीठफलके, नितम्बस्य स्थलं पुनः । ऊर्वोः कदलिकास्तम्भभकरौ करभस्तथा ।। ३० ।। जङघायुगस्य च स्तम्भो, गते समतङ्गजौ । इमान्यन्यानपि स्त्रीभ्य उपमानं यथोचितम् ।। ३१ ।।
म. टी. तथा स्याः कामिन्या मुखं बभी शुशुभे । कथम्भूतम् ? समीपस्थकुचयुग्मं तथा । कथं ? यथा कमलं बभौ । कथम्भतं ? पार्श्वस्थचत्रवाकयुगलमिति १० तथा । यत्र उपमानोपमेयत्वं पर्यायेण द्वयोरुपमानोपमेययोर्भवेत सा उपमेयोपमा प्रतिपाद्यते । यथा-मखवदिन्दुरिन्दुवन्मुखमित्यादि ११ । यिन्-कर्माधिकरणयोरिति यिन् । क्यान् प्रत्ययकस्य संज्ञा। आयिः व्यङप्रत्ययस्य संज्ञा । तेन कर्माधिकरणयोः क्यान् समायाति । कर्तरि क्यप्रत्ययश्च कर्मकत्रोः । णम् प्रत्यय इत्याद्या उपमानवाचकाः । राजादीनामिति आदिशब्दात् प्रधानपुरोहितसेनानिप्रभृतीनामपमानानि । शिवः १ ब्रह्मा २ विष्णः ३ शेषः शेषनाग: ४ सुरेश्वरः ५ सूर्य: ६ इन्दु ७ जलदो मेघः ८ उदन्वान् समद्र: ९ अग्निः १० सिंहः ११ अद्रिः १२ हस्ती १३ भूपृथिवी १४ भूकहो वृक्षः १५ नभो गगनं १६ अम्भोज कमलं १७ मरालो राजहंस: १८ गरुडः १९ अनिलो वायु : २० पुरं नगरं २१ आरामो नगरासन्नखंडः २२ सर: तडाग: २३ इत्यादीनि सुधीः कल्पयेत् । भजन्तीति--एवं सर्वे पदार्थाः पदार्थानामुपमानतामाश्रयन्तीति । मानवा मौलितो वा इत्यनक्रममाह-मस्तकस्योपमानं छत्रं (१) वर्णकुम्भः २ कमलं ३ च । वेण्या उपमानं सर्पः १ असि: खड्ग २ भगाली भ्रमरणि ३ श्च । केशपाशस्योपमानं चामराणि १ मयूरपिच्छसमूहश्च २ धम्मिल्लस्य गम्फितकेशस्योपमानं राहः । सीमन्तस्य मार्गः १ दण्डश्च २ । ललाटस्य अष्टमी चन्द्रः १, फलकं पट्रिकं २ च । कपोलस्य चन्द्रमा १ मकूरो दर्पण: २ स्थलं ३ कनकतुलातलमित्यन्यत्र ४ च । भ्रुवो: खड्ग १ धनु: २ यष्टि: ३ रेखा ४ पल्लव: ५ वल्लि
च । दशोः चकोरः १ हरिणः २ मदिरा ३ खंजन: पक्षिविशेषः ४ अम्बुजं ५ नीलोत्पलं ६ कुमुदं च ७ । श्रुतेः कर्णस्य दोला १ पाशको नागपाशक: २ । नासिकायाः वंशो १ अधोमुखतूणीरः बाणस्थानं २ शुकचञ्चुः ३ तिलप्रसून ४. दण्ड ५ श्च अश्वमुखमित्यन्यत्र ६ । अधरस्य नवपल्लव: १ बिम्बीफलं २ प्रवालं च ३ । दन्तानांमौक्तिकावलिः १ कून्दः २ दाडिमवीजानि ३ हीरकाश्च । हासस्य चन्द्रज्योत्स्ना १ पुष्पाणि २ पीयूषं ३ । पुष्पाणीत्यत्र दुग्धं चेति पाठान्तरम् । श्वासस्याम्भोजसौरभं १ । जिह्वायाः वस्त्राञ्चलः १ दोला २। वाण्या भूङ्गीरवः १ कोकिलार वः २ सधा ३ मध च ४ । मुखस्य चन्द्रः चन्द्रबिम्बं १ पंकजं २ दर्पणा दर्पणतलं ३ । कण्ठस्य कम्ब: शंख: १ । अंशस्य कुम्भो घटः । वाह्वोः वल्लरी १ मृणालं कमलनालं २ लहरी सरोवरादिवीचिः ३ । शाखा कल्पवृक्षादि शाखा ४ पाशाः ५ पाणेश्चरणस्य च । पल्लव: १ अम्बुजं २ । अंगुल्याः पल्लवः १ मुद्गशम्बेत्यन्यत्र । नखपद्धतेः रत्नानि १ तारा: २ प्रसूनानि । स्तनयो: स्तबको १ घटौ २ हस्तिकुम्भौ ३ पर्वतौ ४ चक्रवाको ५ स्तम्बी धान्यगच्छौ ६ । मध्यस्य कटीमध्यस्य वेदिका यज्ञवेदिकाद्वयमध्यं १ सिंहः सिंहकटि: २ शक्तिश्च ३ । रोमावल्याः रेखाः १ मणालं कमलनाल २ वल्लि : ३ । नाभेः अम्भोज १ आवर्तः २ द्रहः ३ विवरं ४ कपक: ५ । त्रिवल्ल्या. वीचिः १ सोपानानि २ निश्रेणिः ३ । जघनस्य योनिमण्डलस्योपरिभागस्य पुलिनं नदीतट १पीठं ओट्रलक इति प्रसिद्ध २ फलकं पट्टिकं ३ नितम्बस्य स्थलम् । रजः पुञ्जः ऊर्वोः कदलिकास्तम्भौ १ इभकरी २ करभो मणिबन्धकनिष्ठिकामध्यं ३ । जंघायुगलस्य स्तम्भौ १ गते ईंस: १ हस्ती २ च। का.क.
पैसोऽङ्गे तपमानानां विशेषः कोऽपि कथ्यते । स्कन्धस्य वृषरक्ताक्षस्कन्धौ, बाह्वोरहीश्वरः ।। ३२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org