Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
११८
काव्यकल्पलतावृत्तिः-परिशिष्ट
दृष्टि: सालसतां बिभति न शिशुक्रीडासु बद्धादरा श्रोत्र प्रेषयति प्रतिप्रसरसंभोगवार्तास्वपि । पुंसामङकमुपेतशङकमवना नारोहति प्राग्यथा
बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥छ।। (अ.श. ) हावो नेत्रादिविकृत सशृङ्गारमसन्ततं'। नेत्रयोरादिशब्दात् चिबुकग्रीवादेश्च सातिशयो विकारः। शृङ्गारोचित उद्भिद्योद्भिद्यविश्रांतिमत्वेनासन्ततो हाव इति । यथा
स्मित किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतानामारम्भः किश (स)लयितलीलापरिकरः
स्पृशन्त्यास्तारुण्य किमिव हि न रम्यं मृगदृशः ।।छ। (--) हेलावदेवाविच्छिन्नं यौवनोल्लासशालिनी। तदेव नेत्रादिविकृतं सातिशयमविच्छिन्नं निरन्तरं प्रसरणशीलं सशङ्कारं समुचितविभावविशेषोपग्रहविरहादनियाविषयप्रबुद्धरतिभावसमन्वितं हेला। अत्र तारुण्योत्कर्षो यषा (था)--
तरन्तीवाङ्गानि स्खलदमललावण्याजलधौ प्रथिम्नः प्रागल्भ्य स्तनजधनमुन्मुद्रयति च। दृशो लीलारम्भाः स्फुटमपवदन्ते सरलता अहो सारङ्गाक्ष्यास्तरुणिम्नि (मनि) गाढः परिचयः ।।छ।।
अत्र शन्तर्गतरतिप्रबोधमात्रमुक्त त (ना? )भिलाषशृङ्गार इति मन्तव्यम् । तदेव ब्राह्मणस्योपनयनमिव भविष्यत्पुरुषार्थसद्मपीठबन्धत्वेन योषितामाभनन्ति । लीलादयो दश स्वाभाविकाः। विशिष्टविभावलाभे सविषयत्वेन स्फुटीभता (तायां) र (तो)तदुपबहणकृताादेवाविकारा-लीलाविलासविच्छित्तिविभ्रमबिब्बोककिलि (ल) किञ्चितमोदायित कुट्टमितं ललितविहृतनामानः। क्रमादेषां लक्षण यथा
लीलाप्रेम्णैव वाग्वेषचेष्टानुकृतिरीशितुः। धियं गतानां वागादीनां प्रियप्रीत्यतिशयेन न तूद्धर्वदकपेणात्मनि सशृङ्गार योजनं । अनुकृति लीला यथा--
जज करेमि जं जं जंपसे जह तुह तुम नियंसेसि । तं तमण सिक्खिरी पदियहो दीहो न संबुडइ ॥छ।। विलासः प्रियवीक्ष्यादिस्थानयानादिचारुता। तात्कालिक: सातिशयो विशेषो यथा--
अत्रान्तरे किमपि वाग्विभवातिवृत्त वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भरिसात्त्विकविकारविशेषरम्य
माचार्यकं विजयमन्मथमाविरासीत् (मा.मा.) ॥छ।। विच्छित्तिः सौभाग्यशोभाकृद्गर्वादित्यवेषता, सौभाग्यं गर्वादल्या या कल्परचना प्रकृण्टा सौभाग्यादिगणा शोभाकारिणी विच्छित्तिः । यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454