Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
१४२
काव्यकल्पलतावृत्तिः - परिशिष्ट
वह्नाविति धूमेति - धूमध्वज:, धूमकेतन इत्यादयः । हव्येति हव्यभुक् हविर्भुक्, हुतभुक्, हव्याशन:, हविरशन इत्यादयः । ज्वालेति --- ज्वालाजिह्वः, सप्तजिह्वः, मन्त्रजिह्वः, अविजिह्नः, अश्वमुजिह्व इत्यादयः । सप्तार्चिः सप्तज्वालः, विषमाचिरित्यादयः । स्वाहेति - स्वाहावल्लभः स्वाहात्रि अग्नावीनायक इत्यादयः । अवछागरथो मेपरथ
इत्यादयः ॥ छ ॥
यमेति दंडि ( डे ) ति -- दण्डास्त्र, दण्डायुध इत्यादयः । महिषेति - महिषध्वजः, महिषवाहनः, लुला लाञ्छनः इत्यादयः । कालिन्दीति -- कालिन्दीसोदरः, यमुनासहोदर, इत्यादयः । धूमोर्णोति - धूमोर्णप्रियः, धूमोर्णावल्लभ, इत्यादयः । दक्षिणेति ---- दक्षिणेशपतिः प्रेतपतिः पितृपतिः, याम्येश: पिशाचेशः, पितृ प्रभुरित्यादयः । सूर्याङ्गजः सूरसूत इत्यादयः ॥ छ ॥
रक्षसीति - रजनीति - रजनीचरः निशाचरः, रात्रिञ्चर इत्यादयः । निकसेति-- निकसासुतः, निकसाङ्गजः, नैकसेय इत्यादयः । क्रव्येति क्रव्यमुक्, क्रव्याद:, पलाद, इत्यादयः ॥ छ ॥
वरुणेति याद इति यादःपतिः, जलपतिः, अपनाथ:, यादोनाथ, इत्यादयः । पाशेति- माशास्त्रः, पाशायुधः, पाशी, पाशिपाणिरित्यादयः । अत्रार्णवमन्दिरः समुद्रालय इत्यादयः । वायाविति नित्यगतिः सततगतिः सदागतिरित्यादयः । आश्वेति-- आश्वगः आश्वगतिः ॥ छ ॥
श्रीदे इति शर्वेभ्य इति -- शर्वतखः श्रीकण्ठसख इत्यादयः । तत्पुत्रेति तत्पुत्रो नलकूवरः, नलकूबरजनकः, कूबरपितेत्यादयः । निधानेति -- निधानस्वामी, यक्षस्वामी, किन्नरस्वामी, धनस्वामी, निधीश्वरः, निधानेशः, गुह्यकाधिपः, किन्नरेशः इत्यादयः । अलकेति - अलकापतिः, चैत्ररथः स्वामी पुष्पकेश इत्यादयः । । छ । ।
शिवे इति त्रीति -- त्रिदृक् ललाटे नेत्रयोगादेकदृक् । अर्द्धनारीश्वरमूर्ते महेश्वराङ्गस्य एकदृक्तात् । भालदृक्भाललोचन, एकनेत्रः, अग्लोचनः ललाटनयन इत्यादयः । वृषेति -- वृषध्वजः १ वृषभध्वजः, वृषलांछन, इत्यादयः । दिग्भ्य इति -- दिग्वासाः दिगम्बर इत्यादय: श्यामेति श्यामकण्ठः, नीलकण्ठः, नीलग्रीव इत्यादयः । कालेति-कालप्रतिपन्थी, पुरादिगजासुहृत, पूर्वद्वेषी, अन्धकारातिः कामद्वेषी, भवभित्कालान्तक पुरान्तकः, गजासुरद्वेषी, पूषदन्तहरः, अन्धकरिपुः, स्मरारिः, दक्षाध्वरध्वंसकः इत्यादयः । पशोरित पशुपतिः, गणपतिः, भूतपत्तिः, गौरीपतिः, पशुनाथः प्रमथस्वामी, भूतेशः, गिरिजावल्लभ इत्यादयः । शूलादित्यादि -- शूलभृत्, खट्वांगभृत्, गंगाभृत्, भुजङ्गभृत्, इन्दुभृत्, पिनाकभृत्, कपालभृत्, कर्बदभृत्, शूली, खट्वांगधर::, गङ्गाधरः, उरगभूषणः, शशिमण्डनः, पिनाकपाणिः, कपाली, कपर्दीत्यादयः । अत्र धनवान मेघवाहन इत्यादयः । कृत्तिवासा गजाजिनसं ख्यानत्वात् चर्मवसन इत्यादयः । । छ ||
गौर्यामिति महिषेभ्य इति -- महिषमथनी, लुलायभृत्, शुम्भभित्, निशुम्भभिदित्यादयः ||छ ||
भवेव्य इति -- भवप्रिया, शिवलल्लभा इत्यादयः । मेनेत्यादि मेनासुता, हिमाद्रिसुता, अद्रिमेनाङ्गजा, प्रालेयाचलनन्दिनी, गिरिजा इत्यादयः । अत्र दाक्षायणी, दक्षजा, दक्षतनयेत्यादयः सिंहेभ्यो यानानि सिंहमानसिंहवाहनेत्यादयः । स्कन्देभ्यो जनन्यः स्कन्दजननी विषमेत्यादयः । कृष्णेभ्यो मैनाकाद्भगिन्यः कृष्णभगिनी नन्दपुत्रीत्वात् विष्णुस्व सेत्यादयः, मैनाकस्वा, हिमाद्रिपुत्रीलात्, विष्णुस्वसेत्यादयः, मैनाकभगिनीत्यादयः ॥ छ ॥
हेरम्बेति - गणपतिः, गणेशः, विघ्नेश, विघ्नराजः प्रमथाधिप इत्यादयः । एकेति - एकशब्दाग्रतोरदा योज्याः एकरदः, एकदन्तः । गुहोत्पाटितदन्तत्वेदको दक्षिणो दन्तोऽस्य एकदशन इत्यादयः । मूषकेति - मूषकवाहनः आखुर ( षु) रथा, आषुग इत्यादयः । गजेति - गजवदनः, गजास्यः कुञ्जरानन इत्यादयः । अत्र परशुपाणिः, परशुधर इत्यादयः । स्कन्द इति - शिखीति शिखिध्वजः शिखिवाहनः, मयूरवाहन, इत्यादयः । शक्तीति शक्तिपाणिः, शक्तिधरः, शक्तिभृदित्यादयः । शरेति - शरभू, अग्निभूः, अग्निजन्मा, वह्निजन्मेत्यादयः । क्रौंचेति -- कौञ्चाद्रिभृत क्रौञ्चारिः । अंधकासुरे हि महेश्वरा
१. 'वृपध्वज' इति पा.१.१ पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454