Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 438
________________ काव्यकल्पलतावृत्तिः - परिशिष्ट १४१ अमृताशनाः, अमृतान्वस इत्यादयः । दानवे इति-- दानवद्विषः, दानवारयः; दैत्यद्विषः, दनुजद्विषोऽसुरादयः । अत्र नाको विद्यते येषामिति स्वस्वामिसम्बन्धान्नाकिनः स्वर्गिणः, त्रिदिवाधीशा इत्यादयः । अदितिद्यां अदिता, तस्या अपत्यानि आदितेयाः, आदित्या, अदितिजा, इत्यादयः । तेषां विमानो यानमिति सम्बन्धाद्विमानयानाः, वैमानिका, विमानिन इत्यादयः ॥छ || विमाने देवयानं सुरयानमिति ॥ छ ॥ अमृत देवतामन्धोऽन्नभोज्यमाहार इति यावत् । देवान्धो, देवान्नं देवभोज्यं, देवाहार इत्यादि ॥ छ ॥ सूर्ये इति सहस्रेति रुच शब्दाः सहस्रादिभिः सम्प्रत्येक सम्बध्यन्ते । सहस्ररुचिः सहस्रांशु:, दशशतरस्मिः (श्मि:); उष्णरुचिः, शीतेततरश्मि, खररुचिः, खररश्मिः, तीक्ष्णरश्मिरित्यादि ॥ छ || aratha -- वक्रवाकबन्धुः, चत्रबन्धुः, रथाङ्गसुहृत्; अब्जबन्धुः, अब्जसुहृत्; पद्मबन्धुः, कमलसुहृत्; दिवसबन्धुदिनबन्धुः दिनसुहृत् इत्यादयः । ध्वान्तेति --- ध्वान्तरिपुः ध्वान्तारातिः तिमिररिपुरित्यादि । गो इति गोपतिः, तिपतिः त्विषामीशः; दिवसेन दिनेनः दिनपतिः पद्मिनीनः पद्मिनीपतिः; ग्रहेनः, ग्रहाधीशः, ग्रहपतिरित्यादयः । प्रभेति - प्रभादिसप्तभ्यः करः, प्रभाकरप्रभृतयो दिवाकराद्यौगिकत्वात् । दिनकृत्, वासरकृदादयः । नभोइति---नमोरत्नं, नभोमणिः, व्योमरत्न, गगनमणिरित्यादयः । दिनरत्नं, दिवसरत्नं; दिनमणिः, दिवसमणिः इत्यादयः । गगनेति-गगनध्वजः, गगनकेतुः; नभोध्वजः, नभःकेतन इत्यादयः । गगनाध्वगः, गगन पान्थः, नभोध्वगः, नभःपान्थ इत्यादयः । सप्तादेरिति सप्ताश्वः सप्तसप्तिः, अश्वचुक्रुप्ति, विषमसप्तिरित्यादयः । अत्र भास्वान् अयोगिकत्वात् अंशुमान्, अंशुमाली, किरणमालीत्यादि । यमुनाजनकः कृतान्तजनको यौगिकत्वात् कालिन्दिसूः, यमसूरित्यादयः । अब्जहस्तः, अंशुहस्तो यौगिकत्वात् पद्मपाणि: गभस्तिपाणिरित्यादय: ; अरुणसारथिः अरुणसूत इत्यादयः । । छ | अरुण इति -- अर्कसारथिः रवित इत्यादयः वैनतेति-- विनतासुनुः, वैनतेय इत्यादयः । गरुडेति -- गरुडाग्रजः पक्षिराजाग्रज इत्यादयः ॥छ । जैवातृके इति--- जीवत्यनेन अमृतवर्षित्वाज्जगदिति जैवातृकः । जीवे रात्रिको जैवरातृको जैवचेत्यातृकः चन्द्रः । कुमुदि इति कुमुदबन्धुः, कुमुदबांधवः, कैरवबन्धुः, कैरवबान्धवः । सुहृदपि बन्धुप्रायत्वात्' बन्धुरेवेति । कैरवसुहृदित्यादिशशादित्यादि - शशभृत्, कलाभृच्छायाभृत्, मृगभृत्, शशधरः, कलानिधिः, छायाङक, मृगलाञ्छन इत्यादयः । तारेति तारेनः, निशेनः, कुमुदिनीनः, द्विजेनः, तारकपतिः, कुमुद्वतीशः, कैरविणीवल्लभः, ज्योत्स्नेशः, द्विजपतिः, द्विजराज इत्यादयः । औषधीति - औषधीप्रियः, दक्षजाप्रियः, रोहिणीप्रियः, औषधीपतिः, दाक्षायणीकामुकः, रोहिणीप्राणेश इत्यादयः । सुधेति भाद्युतयः - सुवाद्युतिः, श्वेतद्युतिः, हिमद्युतिः, अमृतांशुः शितरोचिः, शी रश्मिरित्यादय: । निशेति - निशामणिः, निशाकरः, रजनीरत्नं, रजनीकरः; कृदपि, निशाकृदपि, इत्यादयः । अत्र दशवाजी, दशाश्वः, श्वेतवाजी, श्वेताश्व इत्यादयः । अमृतसूः, सुधासुरित्यादयः ; अत्रिदृग्ज: अत्रिनेत्र: प्रसू इत्यादयः ॥ छ ॥ इन्द्रेति सहस्रोति - सहस्रनेत्रः, सहस्राक्षः, दशशतनेत्र, इत्यादय: । शतेति - शतक्रतुतः शतमन्युः, शतमख इत्यादयः । वस्त्रेति वज्रपाणिः, पविलक्ष्मा, वज्राङकः, वज्रीत्यादयः । केशवेति - केशवाग्रजः मुकुन्दाग्रजन्मा इत्यादयः । त्रिदिवेतित्रिदिवपतिः स्वः पुरीपतिः, सुधर्मापतिः, सुरपतिः, पौलोमीपतिः पूर्वदिपतिः, अप्सरः पतिः स्वर्नाथः, अमरावतीशः, सुधर्माधिप:, वि (त्रि) दशेश्वरः, शचीप्रियः, प्राचीशः, अप्सरः स्वामीत्यादयः । जम्भेति - जम्भजित् पाकशासनः, बलसूदनः, वृत्तारिः, पुलोमरिपुः, नमुचिद्वेषी, अद्रिभिवादयः । जयन्तेति --- जयन्तजनकः, जयन्तपितेत्यादयोऽत्र । मेघवाहनो घनवाहन इत्यर्थः ॥छ । १. 'बन्धुप्रादात्वात्' इति पा. प. २ मध्ये विशेषम् ।' बन्धुप्रादात् पा.प. १ मध्ये । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454