Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 440
________________ काव्यकल्पलतावृत्तिः परिशिष्ट क्रौञ्चाद्रिमध्ये प्रणष्टोऽनेन क्रौञ्चो दारित इति प्रसिद्धिः । क्रौञ्चदारण इत्यादयः । तारकद्विद्, तारकारिः, तारकान्तक, इत्यादयः । गङ्गेति—–गङ्गासुतः, उमासुतः, कृत्तिकासुतः, गाङ्गेयः, पार्वतीनन्दनः, कार्तिकेय, बाहुलेय, इत्यादयः । षडितिषण्मुखः, षडास्यः, षड्वदन इत्यादयः ॥ ब्रह्मेति - आत्मेति---आत्मभूः, पद्मभूः नाभिभूः, आत्मयोनिः कमलयोनिः नाभिजन्मेत्यादय: सरोजेति-सरोजासन:, कमलासनः, पद्मविष्टर इत्यादय: हंसेति - हंसवाहनः, श्वेतपक्षिरथः इत्यादय: । अत्राष्टभ्यः श्रुतयः - अष्टश्रुतिः, अष्टश्रवण इत्यादयः । चतुर्थो मुखानि चतुर्मुखः चतुरानन इत्यादयः । जगद्भ्यः कर्त्तारः जगत्कर्ता, विश्वसृडित्यादयः ॥ छ ॥ ब्राह्मयमिति - ब्रह्मेति ब्रह्मनन्दिनी, ब्रह्मसुता, ब्राह्मी, विरंचितनयेत्यादयः । वाचनेति वचनाधिदेवता वागीश्वरीत्यादयः । अत्र शास्त्रेभ्योऽधिदेव्यः शास्त्रादधिदेवी श्रुतदेवतेत्यादयः ॥ छ ॥ १४३ विष्णाविति, श्रीभ्यो इति श्रीपतिः, लक्ष्मीवल्लभ, कमलाप्रिय, इत्यादयः । वाद्धति-वाद्धिशयनः, समुद्रवाय इत्यादयः। इन्द्रेति तु इन्द्रावरजः शक्रानुजः, वासवावरज इत्यादयः । इन्द्रमातुरदितेर्गर्भे बलिनिग्रहार्थं वामनरूपेणोत्पन्नत्वाज्जन्माधः । दीप्तिनिर्जितविरोचनादय विरोचनसु दभीप्सतः । आत्मभूरवरजाखिलप्रजः स्वर्पतेरव रजत्वमायया । वैनतेय इति वैनतेयवाहनः सौपर्णेयवानः, गरुडगामीत्यादयः वैत्येति-दैत्यारिः, दानवरिपुः, असुरद्वेषीत्यादयः । पुराणेतिपुराणपुरषः, यज्ञपुरुषः पुरातनपुमान् ऋतुपुरुषइत्यादयः । शार्ङ्गति- शार्ङ्गभृत् चक्रभृत् गदाभृत् शङ्खभृत् श्रीवत्सभृत् शार्ङ्ग चक्रपाणिः गदाधर कौमोदकीलक्ष्मा शङ्खपाणि, श्रीवत्साङक इत्यादय: । तार्क्षेति - तार्क्ष्यध्वजः, गरुडाङकः, गरुडकेतुरित्यादयः । देवकीति - देवकीपुत्रः देवकीनन्दन, इत्यादयः । चतुरिति चतुःशब्दस्य पुरोऽग्रतो भुजा चतुर्भुजः, चतुर्बाहुरित्यादयः । गोपेभ्य इति गोपप्रभुः गोपालस्वामी, गोपेश इत्यादयः । पीतेति -- पीतवसनः, पीताम्बरः, पिङ्गवासा. इत्यादयः। कालियेत्यादिके पानीये आलयो यस्य कालिय: । पृषोदरादित्वात् कालियारिः, कालियदमनः, कालनेमिहरः, चाणूरसूदनः, धेनुकध्वंसी, मधुमथनः पूतनाभूषणः, साल्वरिपुः, कंसजित् । यमलरूपावर्जुनवृक्षौ यमलार्जुनी, यमलार्जुनभञ्जनः । केशा विद्यन्तेऽस्य केशी, केशिहा, शिशुपालनिषूदः, हयग्रीवहन्ता राहुमूर्द्धहरः कैटभारातिः, सुरभित्, शकटखण्डनः, बलिबन्धनः, द्विवेदद्वेषी, नरकान्तकः, हिरण्यकशिपुदारणः, मंदमर्दनः, बाणजेता, अरिष्टपेषी । एतेभ्यस्त्रयोविंशति वध्येभ्यः पुरस्थरित्यर्थशब्दैर्विष्णुनामानि भवन्ति ॥ छ ॥ रुक्मिणीत्यादि रुक्मिणीप्रियः सत्यभामावल्लभः, राधाधव इत्यादयः । अत्र जलेभ्य: शयः जले शेते, जलेशय, जलशय इत्यादि; तोयशय नीरशय इत्यादयः ॥छ । रामेति मुशलेति----मुशलास्त्र:, शीरास्त्र:, मुशली, हली, मुशलपाणिरित्यादयः । कृष्णेति - कृष्णाग्रजः, इत्यादयः रुक्मीत्यादि - - रुक्मिभित्, प्रलम्बभित्, यनुनाभित्, रुक्मिदारणः, प्रलम्बघ्नः, कालिन्दीकर्षण इत्यादयः । नोलेति--नीलवसनः, नीलाम्बर, इत्यादयः ॥ छ ॥ लक्ष्म्यामिति - कृष्णेति - - कृष्णप्रिया हरिवल्लभेत्यादयः । पद्मेति -- पद्मवासाः, कमलवासेत्यादयः । क्षीराब्धिपुत्री, क्षीरोदतनया, दुग्धाभोनिधिसुता, अब्धिसुता, उदधिपुत्रीत्यादयः ॥ छ ॥ Jain Education International कामेति - विषमेति - विषमास्त्रो, विषमायुधः, पञ्चेषुत्वात् । श्रीति - श्रीपुत्रः श्रीनन्दनः, लक्ष्मीसुत इत्यादयः, रुक्मिण्या श्रियोऽवतारत्वात् । रतीति- रतिप्रियः, रतिजीवितेश, इत्यादयः । मध्विति मधुसुहृत्, मधुसखः, चैत्रसुहृदित्यादयः । मोति - मीनध्वजः, मकरध्वजः झषकेतनः, मकरकेतुरित्यादयः । अनिरुद्धेति - अनिरुद्धपिता, उषेशजनक इत्यादयः । शंबरेति - शम्बरभित्, सूर्पकभित्, सूर्पकारातिरित्यादयः । पञ्चशरः, पञ्चेषुः, पञ्चबाणः, विषमेषुः, अयुग्बाणः १. 'विष्णाविति समुद्रवाय इत्यादयः - इदं पा.प. १ पुस्तके नास्ति । For Private & Personal Use Only क्षीरेति--- www.jainelibrary.org


Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454