Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
१४४
काव्यकल्पलतावृत्तिः -परिशिष्ट
इत्यादयः। पुष्पेति-पूष्पकेतनः, पूष्पध्वज, इत्यादय:।मणालेति-मणालधनः, मणालधन्वा, मणालचाप इत्यादयः । पुष्पेतिपुष्पबाणः । पुष्पास्त्र, पुष्पधनुः; कुसुमेपु:, कुसुमाथुध., कुसुमचाप, इत्यादयः । इषुचापयो: सत्यप्यस्त्रत्वे भेदेन ग्रहणं, लोके तथाव्यवहारात् । शृङ्गारेत्यादि-शृङ्गारयोनिः, आत्मयोनिः, सङकल्लयोनिः, चित्तयोनिः; शृङ्गारजन्मा, आत्मभूः, स्मृतिभूः, मनोभव इत्यादयः । अत्र ह.न्मनोभ्यांशयः हृच्छयः, मनसिशय इत्यादयः ।।छ।।
तायेइति-अरुति--अरुणावर जः, रविसुतानुज, इत्यादयः । विष्णुभ्य इति--विष्णुवाहनः, कृष्णयानमित्यादयः । पक्षीति-पक्षिनाथ:, विहगपतिरित्यादयः। वजीति-वज्रभित्, इन्द्रजिदित्यादयः।।
दैत्येति-दितेरिति--दितिपुत्रः, दितिसूनुः, दैत्यः, दानवः, दितिजः, दनुज, इत्यादयः । देवेति-देवरिपुः, सुरारिरित्यादयः ।।छ।।
पृथिव्यामिति-अब्धीति--अब्धिनेमी, अब्धिमेखला, अब्धिवसना, जलधिनेमिः, समुद्रकांचिः, सागराम्बरा इत्यादय:। अत्र शैलेभ्य आधारः शैलाधारा:, पर्वताधारेत्यादयः। शैले इति-भूभ्य इति-भूधरः, भूध्र: क्षितिधरः, क्षितिध्रः, भूभृदित्यादयः॥छ।
उदयाद्राविति---उदयगिरिः, पूर्वगिरिः, उदयाद्रिः, प्राचीपर्वत, इत्यादयः । अस्ताद्राविति--अस्तनगः, प्रत्यग्नगः, अस्ताद्रिः, पश्चिमाचलः, परमाचलः इत्यादयः ॥छ।।
हिमाद्रिाविति-उदगित्यादि-उदगद्रिः, हिमाद्रिः, उत्तराचलः, तुषाराचल:, प्रालेयशैल इत्यादयः । अद्रिभ्य इति-- अद्रिपतिः, नगाधिपः, शैलराज इत्यादयः । मेनकेति-मेनकाप्रियः, मेनकावल्लभ इत्यादयः । पार्वतीति-पावतीति--पार्वतीगुरुः, गौरीगुरुरित्यादयोऽत्र गौरीभ्यो जनका (क) गौरीजनक: पार्वतीपितेत्यादयः । हिमेभ्य आलय हिमालयः, प्रालेयालय इत्यादयः ॥छ।।
मलये इति-दक्षिणेति---दक्षिणशैलः दक्षिणाचलः, याम्याद्रिरित्यादयः । अत्र चन्दनेभ्योऽद्रिः चन्दनाद्रिः, श्रीखण्डाचल इत्यादयः। कैलासेति स्फटिकेति---स्फटिकनगः, स्फटिकाद्रिरित्यादयः। अत्र धनदेभ्य आवास, धनदावासः, गुहाकेन्द्रावास इत्यादयः । हरेभ्यो गिरयः हरगिरिः, हराद्रिः, शिवशैल, इत्यादयः ।।छ।।
मेराविति-स्वर्गीत्यादि-स्वर्गिभूधरः, स्वर्गपर्वतः, सुवर्णाद्रिः, सुरशैल: त्रिदिवगिरिः, कनकाचल इत्यादयः। सूर्येभ्य इति--अत्रोद्देश्य वचनमपि यौगिक शब्दार्थ, पृथग विभक्ति कृ (कृत? )त्वेनोपन्यासात् सूर्यकान्त, रविकान्त इत्यादयः सूर्येति--सूर्यरत्नं, सूर्योपल:, अग्निरत्नं, दहनोपलः, रविभाणिः, सूर्यास्मा (श्मा), ज्वलनमणिः, ज्वलनाश्मेत्यादयः ।।छ।।
चन्द्रभ्य इति--अत्रापद्देश्यवचनं यौगिकशब्दार्थत्वार्थत्वसमासेनापन्यासात् चन्द्रकान्तः, शशिकान्त, इन्दुकान्त इत्यादयः, चन्द्रेति--चन्द्रमाणि, शशिरत्नं, चन्द्रोपलश्चन्द्रास्मे (श्मे ) त्यादयः। अब्धाविति-नदीभ्य इतिनद्यधिपः, वार्यधिपः, श्री (स्रो)तोधिपः, यादोधिपः, नदीपतिः, धुवनीधवः, पयःपतिः, पाथोनाथः, श्री (स्रो) तोधीशः, याद:पतिरित्यादयः। अद्भय इति----अपांनिधिः, जलधिः, जलाशयः, पयोराशिः, वारिनिधिः, नीरनिधिः, नीराशयः, तोयराशिः, वाद्धिरित्यादयः। दुग्धादेरिति---दुग्धार्णवः, क्षीरोदधिः, लवणार्णवः, दधिवारिधिः, घृतसमुद्रः, सुरावारिधिः, इक्षुनीरधिः, स्वादुजलधिरिति सप्तार्णवाः ।
यदाहुः-- लवणक्षीरदध्याद्यसुरेक्षुस्वादुवारयः । तथा चोक्तंलवणो रसमयः सुरोदकः सर्पिषोधिजलः पयःपया । स्वादुवारिरुदधिश्व सप्तमस्तान् परीत्य त इमे व्यवस्थिताः ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454