Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
११६
काव्यकल्पलतावृत्ति:-परिशिष्ट
स्ववशे (s)नागते कान्ते तदनागमकारणम् । व्याकुला चितयेद्या सा विरहोत्कण्ठिता मता ॥छ।।
यथा--
अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक् सुहृत् यो मां नेच्छति नागतश्च हहहा कोऽयं विधेः प्रक्रमः। इत्यल्पेवरकल्पनाकवलितस्वान्ता निशान्तान्तरे ।। वावृत्तविव (त)त्तनव्यतिकरा नाप्नोति निंद्रां निशि ॥
विरहोत्कण्ठितायां प्रियागमनमचिरादवश्यम्भावि परस्परकलहश्चनास्तीति खण्डिता कलहान्तरिता विप्रलल्धाभ्यो भिन्नेयम् ॥छ।।
दूत्या स्वयं वा सकेतं कृत्वा केनापि हेतुना । प्रियेऽनागते दुस्थगया विप्रलब्धां वदन्ति ताम् ।।
यथा--
वत्मकेंतगृहं प्रियस्य कथितं संप्रेक्ष्य दूतीं स्वयं तच्छ्न्यं सुचिरं निषेव्य स्वदृशा पश्चातु भग्नाशया । स्थानोपासनसूचनाय विगलत्सान्द्रा जनरश्रुतिः भूमावक्षरमालिकेव लिखिता दीर्धा रुदत्या शनैः ॥ विप्रलब्धायां नान्यस्त्र्याशक्तिरिति खण्डिताया भिन्नासौ ॥छ।। या स्नेहादभिसरत्यभिसारयति या प्रियम् । आक्रान्ता मदकामाभ्यां तां वदन्त्य भिसारिकाम् ॥
यथा--
उरसि निहितस्तारो हारः कृता जघने धने । कलकलवती काञ्ची पादौ रणन्मणिनपुरौ । प्रियमभिसरस्येवं मुग्धत्वमाहितडिण्डिमा किमपरमितस्त्रासोत्कम्पा दिशः समदीक्षसे ।।
तथा
नवमेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथनमधिगम्या वदेरभिदनिका चिदिति संदिदिशे ।।छ।। अन्यस्त्री स्थाद्विरहोत्का विप्रलब्धाभिसारिका ।
अन्यस्त्रियौ कन्योढे संकेतात् पूर्व विरहोत्कण्ठिते । पश्चाद् विदूषकादिना सहाकादिना सहावभिसारिरत्यावभिसारिका। कुतोऽपि कारणात् संकेतस्थानमप्राप्ते नायके विप्रलब्धे इति व्यवस्थितैवानयोरिति ॥छ।।
ईयाहेतुः सपत्नी तु विज्ञेया प्रतिनायिका ॥छ।। अथासां सहायिन्यः
सखी धात्री नटी दासी प्रतिवेश्या कुमारिका । लिङ्गिनी शिल्पिनी कारु: स्वयंदूत्यो मृगीदृशाम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454