SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ११६ काव्यकल्पलतावृत्ति:-परिशिष्ट स्ववशे (s)नागते कान्ते तदनागमकारणम् । व्याकुला चितयेद्या सा विरहोत्कण्ठिता मता ॥छ।। यथा-- अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक् सुहृत् यो मां नेच्छति नागतश्च हहहा कोऽयं विधेः प्रक्रमः। इत्यल्पेवरकल्पनाकवलितस्वान्ता निशान्तान्तरे ।। वावृत्तविव (त)त्तनव्यतिकरा नाप्नोति निंद्रां निशि ॥ विरहोत्कण्ठितायां प्रियागमनमचिरादवश्यम्भावि परस्परकलहश्चनास्तीति खण्डिता कलहान्तरिता विप्रलल्धाभ्यो भिन्नेयम् ॥छ।। दूत्या स्वयं वा सकेतं कृत्वा केनापि हेतुना । प्रियेऽनागते दुस्थगया विप्रलब्धां वदन्ति ताम् ।। यथा-- वत्मकेंतगृहं प्रियस्य कथितं संप्रेक्ष्य दूतीं स्वयं तच्छ्न्यं सुचिरं निषेव्य स्वदृशा पश्चातु भग्नाशया । स्थानोपासनसूचनाय विगलत्सान्द्रा जनरश्रुतिः भूमावक्षरमालिकेव लिखिता दीर्धा रुदत्या शनैः ॥ विप्रलब्धायां नान्यस्त्र्याशक्तिरिति खण्डिताया भिन्नासौ ॥छ।। या स्नेहादभिसरत्यभिसारयति या प्रियम् । आक्रान्ता मदकामाभ्यां तां वदन्त्य भिसारिकाम् ॥ यथा-- उरसि निहितस्तारो हारः कृता जघने धने । कलकलवती काञ्ची पादौ रणन्मणिनपुरौ । प्रियमभिसरस्येवं मुग्धत्वमाहितडिण्डिमा किमपरमितस्त्रासोत्कम्पा दिशः समदीक्षसे ।। तथा नवमेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथनमधिगम्या वदेरभिदनिका चिदिति संदिदिशे ।।छ।। अन्यस्त्री स्थाद्विरहोत्का विप्रलब्धाभिसारिका । अन्यस्त्रियौ कन्योढे संकेतात् पूर्व विरहोत्कण्ठिते । पश्चाद् विदूषकादिना सहाकादिना सहावभिसारिरत्यावभिसारिका। कुतोऽपि कारणात् संकेतस्थानमप्राप्ते नायके विप्रलब्धे इति व्यवस्थितैवानयोरिति ॥छ।। ईयाहेतुः सपत्नी तु विज्ञेया प्रतिनायिका ॥छ।। अथासां सहायिन्यः सखी धात्री नटी दासी प्रतिवेश्या कुमारिका । लिङ्गिनी शिल्पिनी कारु: स्वयंदूत्यो मृगीदृशाम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy