________________
काव्यकल्पलतावृत्तिः - परिशिष्ट
शिल्पिनी चित्रकरादि स्त्री कारुरजकीप्रभृतिः । तत्र सखी यथा
सव्वं जाणइ दट्ठ, सरिसंमि जणंमि जुज्जपराउ । मरउ न तुमं भणिस्स मरणं पि सलाहणिज्जं से ।। स्वयंदूती यथ. --
महुएहि किं व वालय हरसनिय वाउ जइ विसेसिचयं । साहेभि कस्स सुंदर गामो दूरे अहं इक्का इत्याद्युह्यम् ||छ || सत्त्वाविंशतिः स्त्रीणामलंकारास्तु यौवने
संवेदनरूपात् प्रसृतं यत्ततोऽन्यद्देहधर्मत्वेऽनवस्थितम् । सत्त्वं यदाह - देहात्मकं भवेत् सत्वमिति । ततो जाताः सत्त्वजाः राजस तामस स (श) रीरेष्वसम्भवात् चण्डालीनामपि रूपलावण्य सम्पदो दृश्यन्ते, न तु चेष्टालंकाराः । तासां भवंत उत्तमतामेव सूचयन्ति । अलंकारा देहमात्रनिष्ठाः न तु चित्तवृत्ति रूपाः । ते ह्य तमप्रकृतीनां वनितानां यौवने वपुषि भूषाहेतव: । प्रादुर्भूत दृश्यन्ते बाल्येऽनुद्भिन्नाः, वार्द्धके तिरोभूताः । एते च तारुण्य (तरुण) स्त्रीणामेव प्राधान्यतोऽलंकाराः पुंसां तूत्साहादयो मुख्यतोऽलंकाराः । तेन सर्वेष्वपि नायकभेदेषु धीरत्वं विशेषणतयोक्तम् । भावादयस्तु पुंसां उत्साहाद्या तथोदिता एव भवन्ति ते गौणाः । भावादीनां विंशतिसंख्यात्वमात्रोद्दिष्टभेदापेक्षयाऽपरथा यौवने वनिताकाराणामनन्ततेव ॥छ ||
एषां व्यक्तिर्यथा ( व्यापि यथा सं . प . १, २ )
त्रेयोङ्गजा भावहावहेला स्वाभाविका दश । लीलादयस्त्वमी सर्वे क्रियारूपास्त्रयोदश ॥
Jain Education International
११७
पुंभोगे सप्त शोभाद्या गुणात्मानस्त्वन्यजा: । तत्राद्यास्त्रयोङ्गाद्यनोद्वाधरशालिनः । प्रियदृष्टि व (र्व ) स्त्रमाल्यादिबाह्यवस्तुनिमित्त रहिताद्गात्रमात्रा | अदित्सत्वोद्बुद्धेन प्राग्जन्माभ्यस्तरत्वमात्रेण जायन्त इत्यंगजाः । एतेऽल्पबहुभूयो विकारात्मजाः। यद्यपि - 'देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः । भावात् समुत्थितो हावो भावाद्धेला समुत्थिता ।' इति भरतवचनक्रमणैषां हेतुभावस्तथापि परम्परया तीव्रतमसत्त्वस्याङ्गस्यैव कारणत्वादङ्गजा इत्युच्यन्ते । एवं च परस्पर समुत्थितत्वेऽप्यमीषामङ्गजत्वमेव । तथाहि - कुमारीशरीरे प्रौढतमकुमायन्तर्गतहेलामलोका न हावोद्भवो भावश्वेदु ल्लसितपूर्वः । अन्यथा तु भावस्यैवोद्भवः । एवं भावेऽपि दृष्टो हावो हेला वा । यदा तु हावावस्थोद्भिन्न पूर्वापरत्र च हेला दृश्यते, तदा हेला एव इह हावाद्वावो भावाद्भाव इति वाच्यम् । एवं परकीयभावादिश्रवणात् सरसकाव्यादेरपि हेलादीना प्रयोगो भवति इति मन्तव्यम् । एतदन्योन्यसमुत्थितत्वं भरतवचनं त्वेकपिण्डापेक्षवत्संवाहनीयमिति । परे देशत्वाद्यतनजन्मसमुचितविभववशाः स्फुटीभावा इति भावानुविद्धे देहे स्वस्माद्रतिलक्षणाद्भावात् प्रियोपभोगानुपभोगयोजयन्ते । तथा कस्याश्चिन्नायिकायाः कश्देिव स्वभावबलाद्भवति । अन्यस्यात्व ( स्त्व ? ) यः । कस्याश्चित् द्वौत्रयः । इत्याद्यतोऽपि स्वाभाविका भावहावहे लास्ते सर्व एव सर्वास्वेव सत्त्वादिकास्तत्तमाङ्गनास्तु भवन्ति । एवमङ्गजाः स्वाभाविकाश्च मिलितास्त्रयोदशा ( शो ? ) ऽपि क्रियारूपा स्त्रीचेष्टात्मकाः । ततः परे सप्त पुरुष भोगे सति यत्तमन्तःपरिस्पन्दं विना गुणस्वभावा देहधर्मरूपा भवति । पूर्वे तु क्रियायत्नजाः । इच्छारि (हि ? ) तो यत्नस्ततो देहक्रियेति पदार्थविदः । अतोऽन्ये सप्त यत्र ( त्न) जाः ।
अथ भावादीनां प्रत्येकशो लक्षणं । भावो वाचादिवैचित्र्यं चिन्हं रत्युत्तमत्वयोः । वाचामादिशब्दोत्तरपादादीनां वैचित्र्यं हृद्योऽल्पो विकारः तथा तरति भावस्य पामरनायिका वैलक्षण्येनोत्तम प्रकृतिकत्वस्य च निश्चयहेतुर्भाविभूतं वागादि वैचित्र्यमुपलभ्योदबुद्धोऽयमन्तः कामप्रदीपोऽस्य, इ (त्यु ? ) त्तमप्रकृतिश्च नायिकेयमिति सहृदयस्य निश्चयो भवतीति । यथा
For Private & Personal Use Only
www.jainelibrary.org