Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 381
________________ काव्यकल्पलतावृत्तिः -परिशिष्ट कुन्दक्षेपानुगमध करश्रीमुरवामात्मविम्बं पात्रीकुर्वन् दशपुरन्धुनेत्रकौतुहलानाम् ।। (मेघदूत-पूर्व) बहित्यादि। शिवचन्द्रस्य बालत्वं यथा-- मालायमानामरसिन्धहंस कोटीरवल्लीकुसुमं भवस्य । दाक्षायणीविभ्रमदर्पणश्रीबालेन्दुखण्डं भवतः पुनातु ॥ कामस्य मुर्तत्वं यथा-- अयं स भुवनत्रयप्रथितसयमः शङकरो बिभर्ति वपुषाधुना विरहकातरः कामिनी अनेन किल निजिता वयमिति प्रियायाः करं करेण परिताडयान् जयति जातहासः स्मरः ।। अमूर्तत्वं यथा-- धनाला मौक्विणादलिकूल लक्ष्यमबलामनोभेचं शब्दप्रभृतय इमे पञ्च विशिखाः । इयान् जेतु यस्य त्रिभुवनमनङ्गस्य विभवः स वः कामान् कामो दिशातु दयितापाङ्गवसतिः ॥छ।। इतिश्री वायटगच्छीय श्रीजिनदत्तमूरिशिष्यपण्डित श्रीमदमरचन्द्रविरचिते स्वोपज्ञकाव्यकल्पलतावत्तिविवेचने परिमलनाम्नि वर्ण्यस्तबकोल्लासी कविसमयकीर्तन एकादशः प्रसरः ॥छ। ग्रथ: १८०॥ देवेत्यादि। देवाः स्युरहब्रह्मेश विष्णु बुद्धांशमन्मखाः । देव्य: सरस्वतीलक्ष्मीगौरीप्रभृतयः श्रुताः ।। चतुर्विशतिरहन्तस्तत्राद्यो वृपभः प्रभुः । द्वितीयोऽस्त्वजितस्वामी ततीयः सम्भवाभिधः ।। अभिनन्दनश्चतुर्थ. पञ्चमः सुमतिः प्रभुः । षष्ठ पद्मप्रभनामा सुपार्श्वः सप्तमः पुनः ।। अष्टमश्चन्द्रप्रभश्च नवम सुविधिः प्रभुः । दशमः शीतलस्त्वेकादशः श्रेयांस तीर्थकृत् ।। द्वादशो वासुपूज्यो च विमलस्तु त्रयोदशः । अनन्तश्चतुर्दशश्च धर्म: पञ्चदशस्ततः ।। पोडशः शान्तिनाथस्तु कुन्थः सप्तदशः पुन.। अरनाथोऽष्टादशोऽथ मल्लिरेकोनविंशकः ।। सृव्रतो विंशतितमः त्वेकविंशो नमिः प्रभुः । द्वाविंशो नेमिनाथस्त्रयोविंश: पार्वतीर्थकृत् ।। चतुर्विंशो महावीर: सर्वेऽष्टादशभिस्त्वमी। दोषमुक्ताश्चतुस्त्रिशन मितैरतिशयैर्यताः ।। परिक्षीणाष्टकर्माण: प्राप्तानन्तचतुष्टयाः । चतुर्विधस्यसठ्ठ स्य सन्तु कल्याणकारिणः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454