Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
११२
आरूढयोवना यथा-
तरन्तीवाङ्गानि स्खलदमललावण्यजलधी प्रथिनः प्रागल्भ्य स्तनजघनमुन्मुद्रयति च । दृशो लीलारम्भाः स्फुटमपवदं ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥
आरूढकामा यथा-
स्मरनवनदीपूरेणोढाः पुनर्गुरुसेतुभिः यदपि विधृतास्तिष्ठन्त्यारादपूर्ण मनोरथाः । तदपि लिखितप्रख्ये रङ्गः परस्परमुन्मुखा नयननलिनीनालानी तं पिबन्ति रसं प्रियाः ॥
मुछतरता यथा-
तावच्चिय र समए महिलाणं विब्भमा विरायंति । जाव न नवकुवलयदलसच्छायं मालयंति नयणाई || एवमन्येऽपि व्रीडानपहताः स्वयमनभियोगकारिणो व्यवहाराः स्युर्यथा-स्वेदाम्भः कणिकाञ्चितेऽपि वदने जातेऽपि रोमोद्गमे
विश्रम्भेऽपि गुरौ पयोधरभरोत्कम्पेऽपि वृद्धि गते । दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रियः
तत्त्वं हृतकेशकर्षणघनाश्लेषामृते लुब्धया ||छ। प्रगल्भा प्रोयौवनकामा, स्पर्शेऽप्यचेतना प्रकृष्टकामत्वात् प्रियेण स्पृष्टाऽन्येषा चैतन्यं मुञ्चति ।
प्रौढयौवना यथा
Jain Education International
नितम्बो मन्दत्वं जनयति गुरुत्वाद्द्रुतगते - महत्वादु वृत्तस्तन कलशभारः श्रभ्यति । विकासिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसहमभिसार हि रिपवः ॥
प्रौढकामा था---
न जाने संमुखायाते प्रियाणि वदति प्रिये । सर्वाण्यङ्गानि मे यान्ति नेत्रता सुखकर्णताम् ॥
स्पर्शेऽप्यचेतना यथा ---
काव्यकल्पलतावृत्तिः - परिशिष्ट
कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात्
तद्वासः श्लथमेखलागुणघृतं किञ्चिन्नितम्बे स्थितं । एतावत् सखि वेद्मि केवलमहं तस्याङ्गसङ्ग पुनः
कोऽसा कास्मिरतं नु किं कथमिति स्वल्पाऽपि मे न स्मृतिः ॥ ( अमरुशतके १०१ ) एवमन्येऽपि परित्यक्तह्रीयन्त्रणा वैदग्ध्यप्रागल्भ्यप्रायाः प्रगल्भा व्यवहारा ज्ञेयाः । यथा
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454