SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ११२ आरूढयोवना यथा- तरन्तीवाङ्गानि स्खलदमललावण्यजलधी प्रथिनः प्रागल्भ्य स्तनजघनमुन्मुद्रयति च । दृशो लीलारम्भाः स्फुटमपवदं ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥ आरूढकामा यथा- स्मरनवनदीपूरेणोढाः पुनर्गुरुसेतुभिः यदपि विधृतास्तिष्ठन्त्यारादपूर्ण मनोरथाः । तदपि लिखितप्रख्ये रङ्गः परस्परमुन्मुखा नयननलिनीनालानी तं पिबन्ति रसं प्रियाः ॥ मुछतरता यथा- तावच्चिय र समए महिलाणं विब्भमा विरायंति । जाव न नवकुवलयदलसच्छायं मालयंति नयणाई || एवमन्येऽपि व्रीडानपहताः स्वयमनभियोगकारिणो व्यवहाराः स्युर्यथा-स्वेदाम्भः कणिकाञ्चितेऽपि वदने जातेऽपि रोमोद्गमे विश्रम्भेऽपि गुरौ पयोधरभरोत्कम्पेऽपि वृद्धि गते । दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रियः तत्त्वं हृतकेशकर्षणघनाश्लेषामृते लुब्धया ||छ। प्रगल्भा प्रोयौवनकामा, स्पर्शेऽप्यचेतना प्रकृष्टकामत्वात् प्रियेण स्पृष्टाऽन्येषा चैतन्यं मुञ्चति । प्रौढयौवना यथा Jain Education International नितम्बो मन्दत्वं जनयति गुरुत्वाद्द्रुतगते - महत्वादु वृत्तस्तन कलशभारः श्रभ्यति । विकासिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसहमभिसार हि रिपवः ॥ प्रौढकामा था--- न जाने संमुखायाते प्रियाणि वदति प्रिये । सर्वाण्यङ्गानि मे यान्ति नेत्रता सुखकर्णताम् ॥ स्पर्शेऽप्यचेतना यथा --- काव्यकल्पलतावृत्तिः - परिशिष्ट कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद्वासः श्लथमेखलागुणघृतं किञ्चिन्नितम्बे स्थितं । एतावत् सखि वेद्मि केवलमहं तस्याङ्गसङ्ग पुनः कोऽसा कास्मिरतं नु किं कथमिति स्वल्पाऽपि मे न स्मृतिः ॥ ( अमरुशतके १०१ ) एवमन्येऽपि परित्यक्तह्रीयन्त्रणा वैदग्ध्यप्रागल्भ्यप्रायाः प्रगल्भा व्यवहारा ज्ञेयाः । यथा For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy