SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति:-परिशिष्ट उद्धतोनि तमेकम नेकच्छेदवन्मृगदशामविरामैः । श्रु(श्रू)यते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ।। धीराधीराधीरामध्या प्रौढाप्पुभे त्रिधा। धीरामध्या, धीराधीरा मध्या, अधीरामध्या । एवं प्रौढाऽपि त्रेधाः ॥छ।। पोढाऽपि ज्येष्ठा कनिष्ठाभेदा द्वादशधा मताः । मुग्धैकरूपा प्रागूढा ज्येष्ठा पश्चात् कनिष्ठिका ।। अथ धीरामध्यानां क्रोधचेष्टा यथा-- तिस्रः सोत्प्रासवक्रोक्त्या तयैव धृतबाष्पया। वाक्यरूपेण क्रोधिन्यो धीरामध्यादिकाः क्रमात् ॥ सोत्प्रासवक्रोक्त्यामवाप्य या धीरामध्या यथा--- धिग् मां किं समुपेत्य चुम्बसि बलान्निर्लज्ज लज्जा क्व ते वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूस्ततिधिसे । खिन्नाहं तव रात्रिजागरतया तामेव याच प्रियां। निर्माल्योज्झितमुण्यदामनिकरे का षट्पदानां रतिः॥छ।।। उपचारो बहिच्छाभ्यां धीरा प्रौढप्रियं प्रति । धीरोढादासीत्यतोऽथवाऽऽनुकल्यतः ।। अधीरा प्रौढा संतर्जनाघाताभ्यां क्रुधं सृजेत् । धीरा प्रौढा सोपचारा यथा एकत्रासनसङ्गतिः परिहृता प्रत्युद्गता दूरतस्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविघ्नितः। आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ।। (अमरुशतके १८) धीरा प्रौढा सा बहिच्छा यथा-- वर भ्रभङ्गास्ते प्रकटितगुरुक्रोधविभवा वरं सोपालम्भाः प्रणयमधुरा गद्गदगिरः । वरं मानाटोप: प्रसभजनितानादरविधि निगूढान्तःकोपा कठिनहृदये संवृतिरियम् ।। वीरा धीरा प्रौढोदासीना यथा-- आयस्ता कलहं पुरेव कुरुते न अंसते वाससो भग्न भ्ररतिखण्डवमानमघरं धत्ते न केशग्रहे। अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ॥ (अ.श.-१०६) धीराधीरा प्रौढानुकूला यथायत्पाणिर्न निवारितो निवसनग्रन्थिं समदग्रन्थयन् भ्रूभेदो न कृतो मनागपि सुदुर्यत्खंड्यमानेऽधरे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy