Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
१०८
काव्यकल्पलतावृत्तिः-परिशिष्ट
मदुर्गारहिता शङ्गारिणी शृङ्गाररसजनिता चेष्टा । वचःकायव्यापृतिर्यथा- . कश्चित् कराभ्यामुपगृढनालमालोलपत्राभिहितद्विरेफम् । रजोभिरन्तः परिवेषबंधि लीलारविन्दं भ्रमयाञ्चकार ।। विघ्नेऽप्यचलनं स्वैर्यमारब्धात् कर्मणोऽखिलान् । अवचलनं दाढर्यं अखिलाच्छुभादशुभादपि ।। यथा यथा समारेभे दैवात् सिद्धिन (न) गच्छति ।
तथा तथाऽधिकोत्साहो धीराणां हृदि वर्तते ॥ औदार्य दानमभ्युपपत्ति: संभाषण जने। दानमाजीवितादेरभ्युपपत्तिः, परित्राणार्थिनोङ्गीकरणं, संभाषणं प्रियालापो जने स्वकीये परकीये वा।
दानं यथा
शिरोमखैः स्पन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
तप्ति न पश्यामि तवैव तावत् किं भक्षणं त्वं विरतो गरुत्मन् ।। अभ्युपपत्तिर्यथा
एते वयममी दाराः कन्येय कुलजीवितं । ब्रूत येनात्र वः कार्यमनास्थो बाह्यवस्तुषु ।। संभाषणं यथा--
उत्पत्तिर्जमदग्नितः स भगवान देव: पिनाकी गुरु:
__शौर्य यत् तु न तद्गिरां पथि न तु व्यक्तं हि तत्कर्मभिः ।' त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः
___सत्य ब्रह्मतपो निधिर्भगवतः किं वा न लोकोत्तरम् ॥छ।। (महावीरचरिते) गाम्भीर्य कोपहर्षादिविकारान्नुपलम्भकृत् । यन्माहात्म्यात् क्रोधानन्दादीनां मुखरागनेत्रविकासादयो विकारा नोपलभ्यन्ते। तन्निविकारदेहस्वरूपं गाम्भीर्य । आदिशब्दाद्भयशोकादिग्रहः । यथा--
आहृतस्याभिषेकाय विसष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पो ऽप्याकारविभ्रमः॥छ।।
माधुर्यं मधुरा चेष्टा क्षोभहेतो महत्यपि । अनुल्बणत्वं मधुरा चेष्टा परिकरबन्धस्मश्रुकेशसमारचनवस्त्रावलोकनादिश्लक्ष्णो विकारः क्षोभः सत्त्वचलनं । तस्य हेतौ युद्ध नियुद्धव्यायामादौ विकारानुपलम्भान् मृदुविकारोपलब्धिरन्यो ऽतिर्गाम्भीर्यादन्यन्माधुर्यं यथा--
कपोले जानक्या परिकलभदन्तद्युतिमुषिस्मरस्मेरं गण्डोडमरपूलकं वक्त्रकमलं ।
१. मूले तु 'वीयं यत्तु न तद्गिरां पथि ननु व्यक्तं हि तत्कर्मभिः।' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454