Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 406
________________ काव्यकल्पलतावृत्ति:-परिशिष्ट १०९ मुहुः पश्यन् श्रुण्वन् रजनिचरसेनाकलकल जटाजूटग्रन्थिं दृढयति रघूणां परिवृढः ।।छ।। परक्षेपाद्यसहन तेजः, प्राणात्ययेऽपि हि पराच्छत्रोर्न तु गरोमित्रादेर्वा क्षेपस्तिरस्कारस्तस्य। आदिशब्दान्यावज्ञादेरसहनं प्राणात्यये हि प्राणात्ययमप्यङ्गीकृते (त्ये)त्यर्थः। तेनासहिष्णत्वमक्षमा, न तु देशकालावस्थाद्यपेक्षया नीत्या च सहनपूर्वकं नियतिनमिति यथा-- ब्रत न तनकूष्माण्डफलानां के भवन्त्यमी। अङ्ग लीदर्शनाद्येन न जीवन्ति मनस्विनः ।। स धीरोदात्तललितशान्तोद्धतश्चतुर्विधः। स नायकः। धीरशब्दः प्रत्येक योज्यः। धीरोदात्तधीरललित धीरशांतधीरोद्धता इति । अकातरत्वं धीरशब्दस्यार्थः सर्वत्र समान एव ॥छ।। दक्षिणो धृष्टोऽनुकुल: शठश्चेति चतुर्विधः ।। एककोऽयं नायकस्य भेदाः स्युरिति षोडश ।। धीरोदात्तादीनां लक्षणं यथा-- गूढगर्व: स्थिरो धीरः क्षमावानविकत्थनः । दृढव्रतो महासत्त्वो धीरोदात्तः स रामवत् ।। गूढगर्यो विनयच्छन्नावलेपः । स्थिरो विमृश्यकारी। धीरो महाव्यसनेऽप्यकातरः। अवि.... नात्मश्लाघापरः ढवतोऽङ्गीकृतनिर्वाहकः। महासत्त्वः क्रोधशोकाद्य () नभिभूतान्तसत्त्व:-- सुखी मृदुः, कलासक्तः शङ्गारी, चिन्तयोज्झितः।। विज्ञेयो धीरललितो नलवद्वत्सरा... सुखी सोग (राग?) प्रवणो, मृदुरक्रुराचारः। कलासु गीताद्यास्वासक्तः । शङ्गारप्रधानो मन्त्रिणः राज्यभारत्वाच्चिन्तारहितः ।।छ।। विनयी निरहङकार: कृपावान् सनयः शमी। धीरशान्तो यथा-- विनयी गुरु: जनाद्यनुलंधीत्वात् ... निरहङ्कारः सर्वथाऽप्यनवलेपः। धीरोदात्तस्तु विनयच्छन्नावलेप इति भेदः। मालतीमाधवे माधवः । अविलिप्तश्चलो रौद्रः शूरो मायी विकत्थनः । मत्सरी छद्मवान् धीरोद्धतो रावणवत् मतः ।। अविलिप्तः शौर्यादिमदवानव (ब)लोऽनवस्थितो, रौद्रश्चण्डः, मन्त्रादिव (ब) लेनाविद्यावान् नवस्तुप्रकाशको, मायी विकत्थनः, स्वप्रशंसी मत्सरी, असहतः छद्मवञ्चनमात्रम् ।।छ।। देवा धीरोद्धता धीरोदात्ताः सैन्येशमन्त्रिणः । धीरशान्ता वणिग्विप्रा राजानः स्युश्वतुर्विधाः ।। अयं च नियमो देवादीनां मापेक्षया शिवादीनामदात्तानां, ब्रह्मादीनां शान्तानामापदर्शनात्। राजान इति क्षत्रिय जातिः। बहवचनाद व्यक्तिभेदेन चतु:स्वभावो, नाटकस्य नेता, कस्यां व्यक्ती। एकत्र प्राधान्येन स्वभावचतुष्कस्य वर्णायितुमशक्यत्वादिति । प्रधाननायकस्य वानियमो, गौणनेतणां तु स्वभावान्तरमपि.....वत्यामेन निबध्यते।। १. 'देवाना' पा.प. १। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454